यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् तं शपेयम् अनुज्ञात्र दातव्यैव त्वया गुरो
एवम् अस्त्व् इति राजानम् उवाच भृगुनन्दनः ततो ययातिः स्वं पुत्रम् आहूयेदं वचो ऽब्रवीत्
यदो गृहाण मे शापाज् जरां जातां सुतो भवान् ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः पुत्री तेनैव जनको यस् तदाज्ञावशे स्थितः
नेत्य् उवाच यदुस् तातं ययातिं भूरिदक्षिणम् ययातिश् च यदुं शप्त्वा तुर्वसुं कामम् अब्रवीत्
नागृह्णात् तुर्वसुश् चापि पित्रा दत्तां जरां तदा तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम
द्रुह्युश् च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् अनुम् अप्य् अब्रवीद् राजा गृहाणेमां जरां मम
अनुर् नेति तदोवाच शप्त्वा तं पूरुम् अब्रवीत् अभिनन्द्य तदा पूरुर् जरां तां जगृहे पितुः
सहस्रम् एकं वर्षाणां यावत् प्रीतो ऽभवत् पिता यौवने यानि भोग्यानि वस्तूनि विविधानि च
पुत्रयौवनसंतुष्टो ययातिर् बुभुजे सुखम् ततस् तृप्तो ऽभवद् राजा सर्वभोगेषु नाहुषः ततो हर्षात् समाहूय पूरुं पुत्रम् अथाब्रवीत्
तृप्तो ऽस्मि सर्वभोगेषु यौवनेन तवानघ गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम्
नेत्य् उवाच तदा पूरुर् जरया क्षीयते मया विकारास् तात भावानां दुर्निवाराः शरीरिणाम्
बलात् कालागता सह्या जराप्य् अखिलदेहिभिः सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम्
स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम् अथवा तु जरां राजंस् तपसा नाशयाम्य् अहम्
एवम् उक्त्वा तु पितरं ययौ गङ्गाम् अनुत्तमाम् गौतम्या दक्षिणे पारे ततस् तेपे तपो महत्
ततः प्रीतो ऽभवद् देवः कालेन महता शिवः लोकातीतमहोदारगुणसन्मणिभूषितम् किं ददामीति तं प्राह पूरुं स सुरसत्तमः
शापप्राप्तां जरां नाथ पितुर् मम सुराधिप तां नाशयस्व देवेश पितृशप्तांश् च कोपतः मद्भ्रातॄञ् शापतो मुक्तान् कुरुष्व सुरपूजित
तथेत्य् उक्त्वा जगन्नाथः शापाज् जातां जरां तथा अनाशयज् जगन्नाथो भ्रातॄंश् चक्रे विशापिनः
ततः प्रभृति तत् तीर्थं जरारोगविनाशनम् अकालजजरादीनां स्मरणाद् अपि नाशनम्
तन्नाम्ना चापि विख्यातं कालञ्जरम् उदाहृतम् यायातं नाहुषं पौरं शौक्रं शार्मिष्ठम् एव च
एवमादीनि तीर्थानि तत्राष्टोत्तरम् एव च शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा
तेषु स्नानं च दानं च श्रवणं पठनं तथा सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत्
अप्सरोयुगम् आख्यातम् अप्सरासंगमं ततः तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत्
मुक्तो भवत्य् असंदेहं तत्र स्नानादिना नरः स्त्री सती संगमे तस्मिन्न् ऋतुस्नाता च नारद
वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत्
अप्सरोयुगम् आख्यातं तीर्थं येन च हेतुना तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः
स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम्
गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया
तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः
तस्यां गतायां सस्मार गाधिपुत्रो ऽखिलं कृतम् तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम्
जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः तपस्यन्तं तदोवाच पुनर् इन्द्रः सहस्रदृक्