शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत्
यदुं च तुर्वसुं चैव देवपुत्रसमाव् उभौ शर्मिष्ठा च नृपाल् लेभे त्रीन् पुत्रान् देवसंनिभान्
द्रुह्युं चानुं च पूरुं च ययातेर् नृपसत्तमात् देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः
शर्मिष्ठायास् तु तनयाः शक्राग्निवरुणप्रभाः देवयानी कदाचित् तु पितरं प्राह दुःखिता
मम त्व् अपत्यद्वितयम् अभाग्याया भृगूद्वह मम दास्याः सभाग्याया अपत्यत्रितयं पितः
तद् एतद् अनुमृश्यायं दुःखम् अत्यन्तम् आगता मरिष्ये दानवगुरो ययातिकृतविप्रियात् मानभङ्गाद् वरं तात मरणं हि मनस्विनाम्
तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् कुपितो ऽभ्याययौ शीघ्रं ययातिम् इदम् अब्रवीत्
यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि
न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः
वृद्धत्वम् एव मरणं जीवताम् अपि देहिनाम् तस्माच् छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम्
एतच् छ्रुत्वा ययातिस् तु शापं शुक्रस्य धीमतः कृताञ्जलिपुटो राजा ययातिः शुक्रम् अब्रवीत्
नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये अधर्मकारिणः पापाः शास्या एव महात्मनाम्
धर्मम् एव चरन्तं वै कथं मां शप्तवान् असि देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन
तस्मान् न मम विप्रेन्द्र शापं दातुं त्वम् अर्हसि विद्वांसो ऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम्
ययातिवाक्याच् छुक्रो ऽपि सस्मार सुतया कृतम् असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया
गतकोपो ऽहम् इत्य् उक्त्वा काव्यो राजानम् अब्रवीत्
ज्ञातं मयानयाकारि विप्रियं न वदे ऽनृतम् शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप
यस्मै पुत्राय संदातुं जराम् इच्छसि मानद तस्य सा यात्व् इयं राजञ् जरा पुत्राय मद्वरात्
पुनर् ययातिः श्वशुरं शुक्रं प्राह विनीतवत्
यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम्
यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् तं शपेयम् अनुज्ञात्र दातव्यैव त्वया गुरो
एवम् अस्त्व् इति राजानम् उवाच भृगुनन्दनः ततो ययातिः स्वं पुत्रम् आहूयेदं वचो ऽब्रवीत्
यदो गृहाण मे शापाज् जरां जातां सुतो भवान् ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः पुत्री तेनैव जनको यस् तदाज्ञावशे स्थितः
नेत्य् उवाच यदुस् तातं ययातिं भूरिदक्षिणम् ययातिश् च यदुं शप्त्वा तुर्वसुं कामम् अब्रवीत्
नागृह्णात् तुर्वसुश् चापि पित्रा दत्तां जरां तदा तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम
द्रुह्युश् च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् अनुम् अप्य् अब्रवीद् राजा गृहाणेमां जरां मम
अनुर् नेति तदोवाच शप्त्वा तं पूरुम् अब्रवीत् अभिनन्द्य तदा पूरुर् जरां तां जगृहे पितुः
सहस्रम् एकं वर्षाणां यावत् प्रीतो ऽभवत् पिता यौवने यानि भोग्यानि वस्तूनि विविधानि च
पुत्रयौवनसंतुष्टो ययातिर् बुभुजे सुखम् ततस् तृप्तो ऽभवद् राजा सर्वभोगेषु नाहुषः ततो हर्षात् समाहूय पूरुं पुत्रम् अथाब्रवीत्
तृप्तो ऽस्मि सर्वभोगेषु यौवनेन तवानघ गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम्