तेषु स्नानं च दानं च वाजपेयाधिकं मतम् विशेषतस् तु गङ्गायाः परुष्ण्या सह संगमे
स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते
मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् सर्वक्रतुफलं पुण्यम् अघौघविनिवारणम्
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः मार्कण्डेयो भरद्वाजो वसिष्ठो ऽत्रिश् च गौतमः
याज्ञवल्क्यश् च जाबालिर् मुनयो ऽन्ये ऽपि नारद एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः
पुराणन्यायमीमांसाकथासु परिनिष्ठिताः मिथः समूचुर् विद्वांसो मुक्तिं प्रति यथामति
केचिज् ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् एवं विवदमानास् ते माम् ऊचुर् उभयं मतम्
मदीयं तु मतं ज्ञात्वा ययुश् चक्रगदाधरम् तस्य चापि मतं ज्ञात्वा ऋषयस् ते महौजसः
पुनर् विवदमानास् ते शंकरं प्रष्टुम् उद्यताः गङ्गायां च भवं पूज्य तम् एवार्थं शशंसिरे
कर्मणस् तु प्रधानत्वम् उवाच त्रिपुरान्तकः क्रियारूपं च तज् ज्ञानं क्रिया सैव तद् उच्यते
तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिम् आप्नुयुः कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन
विद्याभ्यासो यज्ञकृतिर् योगाभ्यासः शिवार्चनम् सर्वं कर्मैव नाकर्मी प्राणी क्वाप्य् अत्र विद्यते
कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् ऋषीणां यत्र संवादो यत्र देवो महेश्वरः
चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डम् उच्यते
तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे पितॄणां पावनं पुण्यं स्मरणाद् अपि सर्वदा
तत्राष्टौ नवतिस् तात तीर्थान्य् आह जगन्मयः वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत्
यायातम् अपरं तीर्थं यत्र कालञ्जरः शिवः सर्वपापप्रशमनं तद्वृत्तम् उच्यते मया
ययातिर् नाहुषो राजा साक्षाद् इन्द्र इवापरः तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम्
ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः
ब्राह्मण्य् अपि महाप्राज्ञा देवयानी सुमध्यमा ययातेर् अभवद् भार्या सा तु शुक्रप्रसादतः
शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत्
यदुं च तुर्वसुं चैव देवपुत्रसमाव् उभौ शर्मिष्ठा च नृपाल् लेभे त्रीन् पुत्रान् देवसंनिभान्
द्रुह्युं चानुं च पूरुं च ययातेर् नृपसत्तमात् देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः
शर्मिष्ठायास् तु तनयाः शक्राग्निवरुणप्रभाः देवयानी कदाचित् तु पितरं प्राह दुःखिता
मम त्व् अपत्यद्वितयम् अभाग्याया भृगूद्वह मम दास्याः सभाग्याया अपत्यत्रितयं पितः
तद् एतद् अनुमृश्यायं दुःखम् अत्यन्तम् आगता मरिष्ये दानवगुरो ययातिकृतविप्रियात् मानभङ्गाद् वरं तात मरणं हि मनस्विनाम्
तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् कुपितो ऽभ्याययौ शीघ्रं ययातिम् इदम् अब्रवीत्
यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि
न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः
वृद्धत्वम् एव मरणं जीवताम् अपि देहिनाम् तस्माच् छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम्