आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तम् इष्टम् तस्मै प्रसन्नः कुपितो ऽपि शंभुर् अयुक्तदातेति न संशयो ऽत्र
ततो ऽयम् आवाप्य वरान् सुवीरो भवप्रसादात् कुसुमं जगाम गच्छन् स लङ्कां भवपूजनाय गङ्गाम् अगाच् छंभुजटाप्रसूताम्
संपूजयित्वा विविधैश् च मन्त्रैर् गङ्गाजलैः शंभुम् अदीनसत्त्वः असिं स लेभे शशिखण्डभूषात् सिद्धिं च सर्वर्द्धिम् अभीप्सितां च
मद्दत्तमन्त्रं शशिरक्षणाय स साधयाम् आस भवं प्रपूज्य सिद्धे तु मन्त्रे पुनर् एव लङ्काम् अयात् स रक्षोधिपतिः स तुष्टः
ततः प्रभृत्य् एतद् अतिप्रभावं तीर्थं महासिद्धिदम् इष्टदं च समस्तपापौघविनाशनं च सिद्धैर् अशेषैः परिसेवितं च
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम्
अत्रिर् आराधयाम् आस ब्रह्मविष्णुमहेश्वरान् तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ
तथा चैका रूपवती कन्या मम भवेत् सुराः तथा पुत्रत्वम् आपुस् ते ब्रह्मविष्णुमहेश्वराः
कन्यां च जनयाम् आस शुभात्रेयीति नामतः दत्तः सोमो ऽथ दुर्वासाः पुत्रास् तस्य महात्मनः
अग्नेर् अङ्गिरसो जातो ह्य् अङ्गारैर् अङ्गिरा यतः तस्माद् अङ्गिरसे प्रादाद् आत्रेयीम् अतिरोचिषम्
अग्नेः प्रभावात् परुषम् आत्रेयीं सर्वदावदत् आत्रेय्य् अपि च शुश्रूषां कुर्वती सर्वदाभवत्
तस्याम् आङ्गिरसा जाता महाबलपराक्रमाः अङ्गिराः परुषं वादीद् आत्रेयीं नित्यम् एव च
पुत्रास् त्व् आङ्गिरसा नित्यं पितरं शमयन्ति ते सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् कृताञ्जलिपुटा दीना प्राब्रवीच् छ्वशुरं गुरुम्
अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै शुश्रूषणपरा नित्यं पुत्राणां भर्तुर् एव च
पतिर् मां परुषं वक्ति वृथैवोद्वीक्षते रुषा प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम्
अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्य् अङ्गिरा ऋषिः यथा शान्तो भवेद् भद्रे तथा नीतिर् विधीयताम्
आग्नेयो ऽग्निं समायातो तव भर्ता वरानने तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया
सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् भर्तरि प्रतिकूलानां योषितां जीवनेन किम्
इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा
अग्निस् त्व् अप्सु शरीरेषु स्थावरे जङ्गमे तथा तव भर्तुर् अहं धाम नित्यं च जनको मतः
यो ऽहं सो ऽहम् इति ज्ञात्वा न चिन्तां कर्तुम् अर्हसि किं चापो मातरो देव्यो ह्य् अग्निः श्वशुर इत्य् अपि इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे
आपो जनन्य इति यद् बभाषे अग्नेर् अहं तव पुत्रस्य भार्या कथं भूत्वा जननी चापि भार्या विरुद्धम् एतज् जलरूपेण नाथ
आदौ तु पत्नी भरणात् तु भार्या जनेस् तु जाया स्वगुणैः कलत्रम् इत्यादिरूपाणि बिभर्षि भद्रे कुरुष्व वाक्यं मदुदीरितं यत्
यो ऽस्यां प्रजातः स तु पुत्र एव सा तस्य मातैव न संशयो ऽत्र तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः सा नैव योषित् तनये ऽभिजाते
श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् आग्नेयं रूपम् आपन्नम् अम्भसाप्लावयत् पतिम्
उभौ तौ दंपती ब्रह्मन् संगतौ गाङ्गवारिणा शान्तरूपधरौ चोभौ दंपती संबभूवतुः
लक्ष्म्या युक्तो यथा विष्णुर् उमया शंकरो यथा रोहिण्या च यथा चन्द्रस् तथाभून् मिथुनं तदा
भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः परुष्णी चेति विख्याता गङ्गया संगता नदी
गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् तत्र चाङ्गिरसाश् चक्रुर् यज्ञांश् च बहुदक्षिणान्
तत्र त्रीणि सहस्राणि तीर्थान्य् आहुः पुराणगाः उभयोस् तीरयोस् तात पृथग् यागफलं विदुः