पुलस्त्यवंशसंभूतो रावणो लोकरावणः दिशो विजित्य सर्वाश् च सोमलोकम् अजीगमत्
सोमेन सह योत्स्यन्तं दशास्यम् अहम् अब्रवम् मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन
इत्य् उक्त्वाष्टोत्तरं मन्त्रं शतनामभिर् अन्वितम् शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् शरणं शिव एवात्र संसारे ऽन्यो न कश्चन
ततो निवृत्तः स ह मन्त्रियुक्तस् तत् सोमलोकाज् जयम् आप्य रक्षः स पुष्पकारूढगतिः सगर्वो लोकान् पुनः प्राप जवाद् दशास्यः
स प्रेक्षमाणो देवम् अन्तरिक्षं भुवं च नागांश् च गजांश् च विप्रान् आलोकयाम् आस नगं महान्तं कैलासम् आवास उमापतेर् यः
को वा गिराव् अत्र वसेन् महात्मा गिरिं नयाम्य् एनम् अथाधि भूमेः लङ्कागतो ऽयं गिरिर् आशु शोभां लङ्कापि सत्यं श्रियम् आतनोति
इत्थं वचो राक्षसमन्त्रिणौ तौ निशम्य रक्षोधिपतेश् च भावम् न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या निशाचरस् तद्वचनं न मेने
संस्थाप्य तत् पुष्पकम् आशु रक्षः पुप्लाव कैलासगिरेश् च मूले हिन्दोलयाम् आस गिरिं दशास्यो ज्ञात्वा भवः कृत्यम् इदं चकार
जित्वा दिगीशांश् च सगर्वितस्य कैलासम् आन्दोलयतः सुरारेः अङ्गुष्ठकृत्यैव रसातलादि लोकांश् च यातस्य दशाननस्य
आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तम् इष्टम् तस्मै प्रसन्नः कुपितो ऽपि शंभुर् अयुक्तदातेति न संशयो ऽत्र
ततो ऽयम् आवाप्य वरान् सुवीरो भवप्रसादात् कुसुमं जगाम गच्छन् स लङ्कां भवपूजनाय गङ्गाम् अगाच् छंभुजटाप्रसूताम्
संपूजयित्वा विविधैश् च मन्त्रैर् गङ्गाजलैः शंभुम् अदीनसत्त्वः असिं स लेभे शशिखण्डभूषात् सिद्धिं च सर्वर्द्धिम् अभीप्सितां च
मद्दत्तमन्त्रं शशिरक्षणाय स साधयाम् आस भवं प्रपूज्य सिद्धे तु मन्त्रे पुनर् एव लङ्काम् अयात् स रक्षोधिपतिः स तुष्टः
ततः प्रभृत्य् एतद् अतिप्रभावं तीर्थं महासिद्धिदम् इष्टदं च समस्तपापौघविनाशनं च सिद्धैर् अशेषैः परिसेवितं च
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम्
अत्रिर् आराधयाम् आस ब्रह्मविष्णुमहेश्वरान् तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ
तथा चैका रूपवती कन्या मम भवेत् सुराः तथा पुत्रत्वम् आपुस् ते ब्रह्मविष्णुमहेश्वराः
कन्यां च जनयाम् आस शुभात्रेयीति नामतः दत्तः सोमो ऽथ दुर्वासाः पुत्रास् तस्य महात्मनः
अग्नेर् अङ्गिरसो जातो ह्य् अङ्गारैर् अङ्गिरा यतः तस्माद् अङ्गिरसे प्रादाद् आत्रेयीम् अतिरोचिषम्
अग्नेः प्रभावात् परुषम् आत्रेयीं सर्वदावदत् आत्रेय्य् अपि च शुश्रूषां कुर्वती सर्वदाभवत्
तस्याम् आङ्गिरसा जाता महाबलपराक्रमाः अङ्गिराः परुषं वादीद् आत्रेयीं नित्यम् एव च
पुत्रास् त्व् आङ्गिरसा नित्यं पितरं शमयन्ति ते सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् कृताञ्जलिपुटा दीना प्राब्रवीच् छ्वशुरं गुरुम्
अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै शुश्रूषणपरा नित्यं पुत्राणां भर्तुर् एव च
पतिर् मां परुषं वक्ति वृथैवोद्वीक्षते रुषा प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम्
अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्य् अङ्गिरा ऋषिः यथा शान्तो भवेद् भद्रे तथा नीतिर् विधीयताम्
आग्नेयो ऽग्निं समायातो तव भर्ता वरानने तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया
सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् भर्तरि प्रतिकूलानां योषितां जीवनेन किम्
इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा
अग्निस् त्व् अप्सु शरीरेषु स्थावरे जङ्गमे तथा तव भर्तुर् अहं धाम नित्यं च जनको मतः