तपो जहि महाबाहो यत् ते मनसि संस्थितम् सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः शिवगङ्गाप्रसादेन किं नामास्त्य् अत्र दुर्लभम्
परिभूतः पिता पूज्यो युष्माभिर् मम दैवतम् तस्यापि मम चात्यन्तं प्रीतिश् च क्रियते यदि
भवद्भिस् तपसो ऽस्माच् च अहं वैरान् निवर्तये वैरनिर्यातनं कार्यं पुत्रेण पितुर् आदरात् प्रार्थयन्ते भवन्तश् चेत् पूर्णास् तन् मे मनोरथाः
ततः सुरगणाः सर्वे राहुं चक्रुर् ग्रहानुगम् तं चापि मेघहासं ते चक्रू राक्षसपुंगवम्
ततो ऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः पुनश् चाह सुरान् दैत्यो मम ख्यातिर् यथा भवेत्
तीर्थस्यास्य प्रभावश् च दातव्य इति मे मतिः तथेत्य् उक्त्वा ददुर् देवाः सर्वम् एव मनोगतम्
दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थम् उच्यते देवा यतो ऽभवन् सर्वे तत्र स्थाने महामते
देवस्थानं तु तत् तीर्थं देवानाम् अपि दुर्लभम् यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम्
तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद तेषु स्नानं च दानं च महापातकनाशनम्
सिद्धतीर्थम् इति ख्यातं यत्र सिद्धेश्वरो हरः तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम्
पुलस्त्यवंशसंभूतो रावणो लोकरावणः दिशो विजित्य सर्वाश् च सोमलोकम् अजीगमत्
सोमेन सह योत्स्यन्तं दशास्यम् अहम् अब्रवम् मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन
इत्य् उक्त्वाष्टोत्तरं मन्त्रं शतनामभिर् अन्वितम् शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् शरणं शिव एवात्र संसारे ऽन्यो न कश्चन
ततो निवृत्तः स ह मन्त्रियुक्तस् तत् सोमलोकाज् जयम् आप्य रक्षः स पुष्पकारूढगतिः सगर्वो लोकान् पुनः प्राप जवाद् दशास्यः
स प्रेक्षमाणो देवम् अन्तरिक्षं भुवं च नागांश् च गजांश् च विप्रान् आलोकयाम् आस नगं महान्तं कैलासम् आवास उमापतेर् यः
को वा गिराव् अत्र वसेन् महात्मा गिरिं नयाम्य् एनम् अथाधि भूमेः लङ्कागतो ऽयं गिरिर् आशु शोभां लङ्कापि सत्यं श्रियम् आतनोति
इत्थं वचो राक्षसमन्त्रिणौ तौ निशम्य रक्षोधिपतेश् च भावम् न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या निशाचरस् तद्वचनं न मेने
संस्थाप्य तत् पुष्पकम् आशु रक्षः पुप्लाव कैलासगिरेश् च मूले हिन्दोलयाम् आस गिरिं दशास्यो ज्ञात्वा भवः कृत्यम् इदं चकार
जित्वा दिगीशांश् च सगर्वितस्य कैलासम् आन्दोलयतः सुरारेः अङ्गुष्ठकृत्यैव रसातलादि लोकांश् च यातस्य दशाननस्य
आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तम् इष्टम् तस्मै प्रसन्नः कुपितो ऽपि शंभुर् अयुक्तदातेति न संशयो ऽत्र
ततो ऽयम् आवाप्य वरान् सुवीरो भवप्रसादात् कुसुमं जगाम गच्छन् स लङ्कां भवपूजनाय गङ्गाम् अगाच् छंभुजटाप्रसूताम्
संपूजयित्वा विविधैश् च मन्त्रैर् गङ्गाजलैः शंभुम् अदीनसत्त्वः असिं स लेभे शशिखण्डभूषात् सिद्धिं च सर्वर्द्धिम् अभीप्सितां च
मद्दत्तमन्त्रं शशिरक्षणाय स साधयाम् आस भवं प्रपूज्य सिद्धे तु मन्त्रे पुनर् एव लङ्काम् अयात् स रक्षोधिपतिः स तुष्टः
ततः प्रभृत्य् एतद् अतिप्रभावं तीर्थं महासिद्धिदम् इष्टदं च समस्तपापौघविनाशनं च सिद्धैर् अशेषैः परिसेवितं च
परुष्णीसंगमं चेति तीर्थं त्रैलोक्यविश्रुतम् तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम्
अत्रिर् आराधयाम् आस ब्रह्मविष्णुमहेश्वरान् तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ
तथा चैका रूपवती कन्या मम भवेत् सुराः तथा पुत्रत्वम् आपुस् ते ब्रह्मविष्णुमहेश्वराः
कन्यां च जनयाम् आस शुभात्रेयीति नामतः दत्तः सोमो ऽथ दुर्वासाः पुत्रास् तस्य महात्मनः
अग्नेर् अङ्गिरसो जातो ह्य् अङ्गारैर् अङ्गिरा यतः तस्माद् अङ्गिरसे प्रादाद् आत्रेयीम् अतिरोचिषम्