ततो ऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन्
वेनस्योरुर् विमथ्यो ऽभूत् ततः कश्चिद् भविष्यति
तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः
तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् निषादः सो ऽभवत् तस्मान् निषादाश् चाभवंस् ततः
वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम् ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः
राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान्
तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च ततो ऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च
आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि
ततः स धनुर् आदाय भुवम् आह नृपोत्तमः
ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया
तम् उवाच मही भीता पृथुं तं पृथुलोचनम्
मयि जीर्णा महौषध्यः कथं दातुम् अहं क्षमा
ततः सकोपो नृपतिस् ताम् आह पृथिवीं पुनः
नो चेद् ददास्य् अद्य त्वां वै हत्वा दास्ये महौषधीः
कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम विना मया कथं चेमाः प्रजाः संधारयिष्यसि
यत्रोपकारो ऽनेकानाम् एकनाशे भविष्यति न दोषस् तत्र पृथिवि तपसा धारये प्रजाः
न दोषम् अत्र पश्यामि नाचक्षे ऽनर्थकं वचः यस्मिन् निपातिते सौख्यं बहूनाम् उपजायते मुनयस् तद्वधं प्राहुर् अश्वमेधशताधिकम्
ततो देवाश् च ऋषयः सान्त्वयित्वा नृपोत्तमम् महीं च मातरं देवीम् ऊचुः सुरगणास् तदा
भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति
ततो गोरूपम् आस्थाय भूम्य् आसीत् कपिलान्तिके दुदोह च महौषध्यो राजा वेनकरोद्भवः
यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः महीं गोरूपम् आपन्नां नर्मदायां महामुने
सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः महानदीषु सर्वासु दुदुहे ऽसौ पयो महत्
सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी गौतम्या संगता चाभूत् तद् अद्भुतम् इवाभवत्
ततः प्रभृति तत् तीर्थं कपिलासंगमं विदुः तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते
तीर्थान्य् आहुर् मुनिगणाः स्मरणाद् अपि नारद पावनानि जगत्य् अस्मिंस् तानि सर्वाण्य् अनुक्रमात्
देवस्थानम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद
पुरा कृतयुगस्यादौ देवदानवसंगरे प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी
तस्याः पुत्रो महादैत्यो राहुर् नाम महाबलः अमृते तु समुत्पन्ने सैंहिकेये च भेदिते
तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः पितरं घातितं श्रुत्वा तपस् तेपे ऽतिदुःखितः
तपस्यन्तं राहुसुतं गौतमीतीरम् आश्रितम् देवाश् च ऋषयः सर्वे तम् ऊचुर् अतिभीतवत्