अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः समाविष्टो गौतमीतीरसंस्थः यत्रायत्यां नाद्य वा सौख्यहेतुस् तच् चाकार्षं कर्म दुर्दैवयोगात्
संहरस्वेदम् आत्रेय यद् इन्द्रस्य विडम्बनम् क्षेमस् ते भविता सत्यं नान्यथा मुनिसत्तम
तदात्रेयो ऽब्रवीद् वाक्यं यथा वक्ष्यन्ति माम् इह करोम्य् एव महाभागाः सत्येनाग्निं समालभे
एवम् उक्त्वा स दैतेयांस् त्वष्टारं पुनर् अब्रवीत्
यत् कृतं त्व् अत्र मत्प्रीत्याऐ ऐन्द्रं त्वष्टः पदं त्वया संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम्
पुनर् देहि पदं मह्यम् आश्रमं मृगपक्षिणः वृक्षांश् च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् सर्वम् अक्रमम् आयातं न सुखाय मनीषिणाम्
तथेत्य् उक्त्वा प्रजानाथस् त्वष्टा संहृतवांस् तदा दैत्याश् च जग्मुः स्वस्थानं कृत्वा देशम् अकण्टकम्
त्वष्टा चापि ययौ स्थानं स्वकं संप्रहसन्न् इव आत्रेयो ऽपि तदा शिष्यैः संवृतः सह भार्यया
गौतमीतीरम् आश्रित्य तपोनिष्ठो ऽखिलैर् वृतः वर्तमाने महायज्ञे लज्जितो वाक्यम् अब्रवीत्
अहो मोहस्य महिमा ममापि भ्रान्तचित्तता किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम्
एवं वदन्तम् आत्रेयं लज्जितं प्राब्रुवन् सुराः
लज्जां जहि महाबाहो भविता ख्यातिर् उत्तमा आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युर् अञ्जसा
इन्द्रास् ते भवितारो वै स्मरणात् सुखभागिनः तत्र पञ्च सहस्राणि तीर्थान्य् आहुर् मनीषिणः
अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम्
इत्य् उक्त्वा विबुधा याताः संतुष्टश् चाभवन् मुनिः
कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम् तत्र नारद वक्ष्यामि कथां पुण्याम् अनुत्तमाम्
कपिलो नाम तत्त्वज्ञो मुनिर् आसीन् महायशाः क्रूरश् चापि प्रसन्नश् च तपोव्रतपरायणः
तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरम् आश्रितम् तम् आगत्य महात्मानं वामदेवादयो ऽब्रुवन्
हत्वा वेनं ब्रह्मशापैर् नष्टधर्मे त्व् अराजके कपिलं सिद्धम् आचार्यम् ऊचुर् मुनिगणास् तदा
गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर
ततो ऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन्
वेनस्योरुर् विमथ्यो ऽभूत् ततः कश्चिद् भविष्यति
तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः
तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् निषादः सो ऽभवत् तस्मान् निषादाश् चाभवंस् ततः
वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम् ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः
राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान्
तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च ततो ऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च
आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि
ततः स धनुर् आदाय भुवम् आह नृपोत्तमः
ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया