क्रोधस् तु प्रथमं शत्रुर् निष्फलो देहनाशनः ज्ञानखड्गेन तं छित्त्वा परमं सुखम् आप्नुयात्
तृष्णा बहुविधा माया बन्धनी पापकारिणी छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः
सङ्गस् तु परमो ऽधर्मो देवादीनाम् इति श्रुतिः असङ्गस्यात्मनो ह्य् अस्य सङ्गो ऽयं परमो रिपुः
छित्त्वैनं ज्ञानखड्गेन शिवैकत्वम् अवाप्नुयात् संशयः परमो नाशो धर्मार्थानां विनाशकृत्
छित्त्वैनं संशयं जन्तुः परमेप्सितम् आप्नुयात् पिशाचीव विशत्य् आशा निर्दहत्य् अखिलं सुखम् पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिम् अवाप्नुयात्
ततो ज्ञानम् अवाप्यासौ गङ्गातीरं समाश्रितः ज्ञानखड्गेन निर्मोहस् ततो मुक्तिम् अवाप सः
ततः प्रभृति तत् तीर्थं खड्गतीर्थम् इति स्मृतम् ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम्
इत्यादिषट्सहस्राणि तीर्थान्य् आहुर् महर्षयः अशेषपापतापौघहराणीष्टप्रदानि च
आत्रेयम् इति विख्यातम् अन्विन्द्रं तीर्थम् उत्तमम् तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम्
गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः अन्वारेभे ऽथ सत्त्राणि ऋत्विग्भिर् मुनिभिर् वृतः
तस्य होताभवत् त्व् अग्निर् हव्यवाहन एव च एवं सत्त्रे तु संपूर्ण इष्टिं माहेश्वरीं पुनः
कृत्वैश्वर्यम् अगाद् विप्रः सर्वत्र गतिम् एव च इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम्
स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् स कदाचिद् दिवं गत्वा इन्द्रलोकम् अगात् पुनः
तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यम् उत्तमम् शृण्वानं मधुरं गीतम् अप्सरोभिश् च वीजितम्
उपोपविष्टैः सुरनायकैस् तैः संपूज्यमानं महदासनस्थम् जयन्तम् अङ्के विनिधाय सूनुं शच्या युतं प्राप्तरतिं महिष्ठम्
सतां शरण्यं वरदं महेन्द्रं समीक्ष्य विप्राधिपतिर् महात्मा विमोहितो ऽसौ मुनिर् इन्द्रलक्ष्म्या समीहयाम् आस तद् इन्द्रराज्यम्
संपूजितो देवगणैर् यथावत् स्वम् आश्रमं वै पुनर् आजगाम समीक्ष्य तां शक्रपुरीं सुरम्यां रत्नैर् युतां पुण्यगुणैः सुपूर्णाम्
स्वम् आश्रमं निष्प्रभहेमवर्ज्यं समीक्ष्य विप्रो विरमं जगाम समीहमानः सुरराज्यम् आशु प्रियां तदोवाच महात्रिपुत्रः
भोक्तुं न शक्तो ऽस्मि फलानि मूलान्य् अनुत्तमान्य् अप्य् अतिसंस्कृतानि स्मृत्वामृतं पुण्यतमं च तत्र भक्ष्यं च भोज्यं च वरासनानि
इच्छेयम् इन्द्रत्वम् अहं महात्मन् कुरुष्व शीघ्रं पदम् ऐन्द्रम् अत्र ब्रूषे ऽन्यथा चेन् मदुदीरितं त्वं भस्मीकरोम्य् एव न संशयो ऽत्र
तदत्रिवाक्यात् त्वरितः प्रजानां स्रष्टा विभुर् विश्वकर्मा तदैव चकार मेरुं च पुरीं सुराणां कल्पद्रुमान् कल्पलतां च धेनुम्
चकार वज्रादिविभूषितानि गृहाणि शुभ्राण्य् अतिचित्रितानि चकार सर्वावयवानवद्यां शचीं स्मरस्येव विहारशालाम्
सभां सुधर्माणम् अहो क्षणेन तथा चकाराप्सरसो मनोज्ञाः चकार चोच्चैःश्रवसं गजं च वज्रादि चास्त्राणि सुरान् अशेषान्
निवार्यमाणः प्रिययात्रिपुत्रः शचीसमाम् आत्मवधूं चकार तदात्रिपुत्रो ऽत्रिमुखैः समेतो वज्रादिरूपं च चकार चास्त्रम्
नृत्यादि गीतादि च सर्वम् एव चकार शक्रस्य पुरे च दृष्टम् तत् सर्वम् आसाद्य तदा मुनीन्द्रः प्रहृष्टचेताः सुतरां बभूव
आपातरम्येष्व् अपि कस्य नाम भवत्य् अपेक्षा नहि गोचरेषु श्रुत्वा च दैत्या दनुजाः समेता रक्षांसि कोपेन युतानि सद्यः
स्वर्गं परित्यज्य कुतो हरिर् भुवं समागतो न्व् एष मिथः सुखाय तस्माद् वयं याम इतो नु योद्धुं वृत्रस्य हन्तारम् अदीर्घसत्त्रम्
ततः समागत्य तदात्रिपुत्रं संवेष्टयाम् आसुर् अथासुरास् ते संवेष्टयित्वा पुरम् अत्रिपुत्र कृतं तथा चेन्द्रपुराभिधानम्
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः
नाहं हरिर् नैव शची मदीया नेयं पुरी नैव वनं तद् ऐन्द्रम् स एव चेन्द्रो वृत्रहन्ता स वज्री सहस्राक्षो गोत्रभिद् वज्रबाहुः