विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे
ततः प्रसन्नः सूर्यो ऽभूद् वरयस्वेत्य् अभाषत
राजानं देहि देवेश भार्यां च प्रियवादिनीम् आत्मनश् च शुभान् पुत्रान् राज्ञश् चैव शुभान् वरान्
ततः प्रादाज् जगन्नाथः शर्यातिं रत्नभूषितम् तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा
ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम्
तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ततः प्रभृति तत् तीर्थं भानुतीर्थम् उदाहृतम्
मृतसंजीवनं चैव शार्यातं चेति विश्रुतम् माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् मृतसंजीवनं तत् स्याद् आयुरारोग्यवर्धनम्
खड्गतीर्थम् इति ख्यातं गौतम्या उत्तरे तटे तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः
तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः पैलूष इति विख्यातः कवषस्य सुतो द्विजः
कुटुम्बभारात् परितो ह्य् अर्थार्थी परिधावति न किमप्य् आससादासौ ततो वैराग्यम् आस्थितः
अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम्
इति संचिन्तयाम् आस तदासौ निःश्वसन् मुहुः क्रमागतं धनं नास्ति पोष्याश् च बहवो मम
मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन्
न लेभे तद् धनं वृत्तेर् विरागम् अगमत् तदा सेवा निषिद्धा या काचिद् गहना दुष्करं तपः
बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते त्वयापकृतम् अज्ञानात् तस्मात् तृष्णे नमो ऽस्तु ते
एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् इत्य् आलोच्य स पैलूषः पितरं वाक्यम् अब्रवीत्
ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् छेद्मीमां केन हे तात तम् उपायं वद प्रभो
ईश्वराज् ज्ञानम् अन्विच्छेद् इत्य् एषा वैदिकी श्रुतिः तस्माद् आराधयेशानं ततो ज्ञानम् अवाप्स्यसि
तथेत्य् उक्त्वा स पैलूषो ज्ञानायेश्वरम् आर्चयत् ततस् तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये प्राप्तज्ञानो महाबुद्धिर् गाथाः प्रोवाच मुक्तिदाः
क्रोधस् तु प्रथमं शत्रुर् निष्फलो देहनाशनः ज्ञानखड्गेन तं छित्त्वा परमं सुखम् आप्नुयात्
तृष्णा बहुविधा माया बन्धनी पापकारिणी छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः
सङ्गस् तु परमो ऽधर्मो देवादीनाम् इति श्रुतिः असङ्गस्यात्मनो ह्य् अस्य सङ्गो ऽयं परमो रिपुः
छित्त्वैनं ज्ञानखड्गेन शिवैकत्वम् अवाप्नुयात् संशयः परमो नाशो धर्मार्थानां विनाशकृत्
छित्त्वैनं संशयं जन्तुः परमेप्सितम् आप्नुयात् पिशाचीव विशत्य् आशा निर्दहत्य् अखिलं सुखम् पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिम् अवाप्नुयात्
ततो ज्ञानम् अवाप्यासौ गङ्गातीरं समाश्रितः ज्ञानखड्गेन निर्मोहस् ततो मुक्तिम् अवाप सः
ततः प्रभृति तत् तीर्थं खड्गतीर्थम् इति स्मृतम् ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम्
इत्यादिषट्सहस्राणि तीर्थान्य् आहुर् महर्षयः अशेषपापतापौघहराणीष्टप्रदानि च
आत्रेयम् इति विख्यातम् अन्विन्द्रं तीर्थम् उत्तमम् तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम्
गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः अन्वारेभे ऽथ सत्त्राणि ऋत्विग्भिर् मुनिभिर् वृतः