एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि
सर्वं बलं प्रेषयित्वा गङ्गातीरे ऽग्निम् आविशत् इत्य् उक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि
यदि दत्तं यदि हुतं यदि त्राता प्रजा मया तेन सत्येन सा साध्वी ममायुष्येण जीवतु
इत्य् उक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे तदैव जीविता भार्या राज्ञस् तस्य पुरोधसः
अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः
तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः आत्मनश् च पुनः कृत्यम् अस्मरन् नृपतेर् गुरुः
अहम् अप्य् अग्निम् आवेक्ष्य उत यास्ये प्रियान्तिकम् अथवेह तपस् तप्स्ये ततो निश्चयवान् द्विजः
एतद् एवात्मनः कृत्यं मन्ये सुकृतम् एव च जीवयामि च राजानं ततो यामि प्रियां पुनः
एतद् एव शुभं मे स्यात् ततस् तुष्टाव भास्करम् न ह्य् अन्यः कोपि देवो ऽस्ति सर्वाभीष्टप्रदो रवेः
नमो ऽस्तु तस्मै सूर्याय मुक्तये ऽमिततेजसे छन्दोमयाय देवाय ओंकारार्थाय ते नमः
विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे
ततः प्रसन्नः सूर्यो ऽभूद् वरयस्वेत्य् अभाषत
राजानं देहि देवेश भार्यां च प्रियवादिनीम् आत्मनश् च शुभान् पुत्रान् राज्ञश् चैव शुभान् वरान्
ततः प्रादाज् जगन्नाथः शर्यातिं रत्नभूषितम् तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा
ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम्
तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ततः प्रभृति तत् तीर्थं भानुतीर्थम् उदाहृतम्
मृतसंजीवनं चैव शार्यातं चेति विश्रुतम् माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् मृतसंजीवनं तत् स्याद् आयुरारोग्यवर्धनम्
खड्गतीर्थम् इति ख्यातं गौतम्या उत्तरे तटे तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः
तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः पैलूष इति विख्यातः कवषस्य सुतो द्विजः
कुटुम्बभारात् परितो ह्य् अर्थार्थी परिधावति न किमप्य् आससादासौ ततो वैराग्यम् आस्थितः
अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम्
इति संचिन्तयाम् आस तदासौ निःश्वसन् मुहुः क्रमागतं धनं नास्ति पोष्याश् च बहवो मम
मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन्
न लेभे तद् धनं वृत्तेर् विरागम् अगमत् तदा सेवा निषिद्धा या काचिद् गहना दुष्करं तपः
बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते त्वयापकृतम् अज्ञानात् तस्मात् तृष्णे नमो ऽस्तु ते
एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् इत्य् आलोच्य स पैलूषः पितरं वाक्यम् अब्रवीत्
ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् छेद्मीमां केन हे तात तम् उपायं वद प्रभो
ईश्वराज् ज्ञानम् अन्विच्छेद् इत्य् एषा वैदिकी श्रुतिः तस्माद् आराधयेशानं ततो ज्ञानम् अवाप्स्यसि
तथेत्य् उक्त्वा स पैलूषो ज्ञानायेश्वरम् आर्चयत् ततस् तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये प्राप्तज्ञानो महाबुद्धिर् गाथाः प्रोवाच मुक्तिदाः