यत् किंचिद् विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् ब्राह्मणेष्व् अथ धीरेषु क्षमावत्स्व् अथ साधुषु
विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु यद् यद् रम्यं सुन्दरं वा तत् तल् लक्ष्मीविजृम्भितम्
किम् अत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् यस्मिन् कस्मिंश् च यत् किंचिद् उत्कृष्टं परिदृश्यते
लक्ष्मीमयं तु तत् सर्वं तया हीनं न किंचन अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे
गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यम् अब्रवीत् ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्य् अभूत्
तावद् दरिद्राभिभवो गङ्गा यावन् न सेव्यते ततः प्रभृति तत् तीर्थम् अलक्ष्मीनाशनं शुभम्
तत्र स्नानेन दानेन लक्ष्मीवान् पुण्यवान् भवेत् तीर्थानां षट् सहस्राणि तस्मिंस् तीर्थे महामते देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम्
भानुतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् तत्रेदं वृत्तम् आख्यास्ये महापातकनाशनम्
शर्यातिर् इति विख्यातो राजा परमधार्मिकः तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि
मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः पुरोधास् तस्य नृपतेर् ब्रह्मर्षिः शमिनां प्रभुः
दिशो विजेतुं स जगाम राजा पुरोधसा तेन नृपप्रवीरः पुरोधसं प्राह महानुभावं जित्वा दिशश् चाध्वनि संनिविष्टः
पप्रच्छेदं केन खेदं गतो ऽसि हेतुं वदस्वेति महानुभाव त्वम् एव राज्ये मम सर्वमान्यः समस्तविद्यानिरवद्यबोधः
विधूतपापः परितापशून्यः किम् अन्यचेता इव लक्ष्यसे त्वम् जितेयम् उर्वी विजिता नरेन्द्रा हर्षस्य हेतौ महतीह जाते
किं त्वं कृशो मे वद सत्यम् एव द्विजातिवर्यातिमहानुभाव संबोध्य शर्यातिम् उवाच विप्रश् छन्दोमधुः प्रेममयीं प्रियोक्तिम्
शृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् स्थिते यामे वयं यामो यामिनी चार्धगामिनी
स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् विकारे स्मरसंजाते जीवातुर् नलिनानना
विहस्य चाब्रवीद् राजा पुरोधसम् अरिंदमः
त्वं गुरुर् मम मित्रं च किम् आत्मानं विडम्बसे किम् अनेन महाप्राज्ञ मम वाक्येन मानद क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम्
एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचो ऽब्रवीत्
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते न चेदं दूषणं राजन् भूषणं चातिमन्यताम्
आजगाम स्वकं देशं महत्या सेनया वृतः परीक्षार्थं च तत्प्रेम पुर्यां वार्त्ताम् अदीदिशत्
दिशो विजेतुं शर्यातौ याते राक्षसपुंगवः हत्वा रसातलं यातो राजानं सपुरोधसम्
राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः
तदैवाभूद् गतप्राणा तद् विचित्रम् इवाभवत् तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन्
यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः विस्मितो दुःखितो राजा पुनर् दूतान् अभाषत
शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा
इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी
विधास्यत्य् अखिलं गङ्गा राजंस् तव समीहितम् सर्वाभिषङ्गशमनी पावनी भुवि गौतमी
एतच् छ्रुत्वा स शर्यातिर् गौतमीतटम् आश्रितः ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितॄन् द्विजान्
पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः