दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्य् अधिका ह्य् अहम् मुक्तिर् मदाश्रिता नित्यं दरिद्रैवं वचो ऽब्रवीत्
कामः क्रोधश् च लोभश् च मदो मात्सर्यम् एव च यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
न भयोद्भूतिर् उन्माद ईर्ष्या उद्धतवृत्तिता यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
दरिद्राया वचः श्रुत्वा लक्ष्मीस् तां प्रत्यभाषत
अलंकृतो मया जन्तुः सर्वो भवति पूजितः निर्धनः शिवतुल्यो ऽपि सर्वैर् अप्य् अभिभूयते
देहीति वचनद्वारा देहस्थाः पञ्च देवताः सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः
तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम्
तावत् सर्वोत्तमो जन्तुस् तावत् सर्वगुणालयः नमस्यः सर्वलोकानां यावन् नार्थयते परम्
कष्टम् एतन् महापापं निर्धनत्वं शरीरिणाम् न मानयति नो वक्ति न स्पृशत्य् अधनं जनः
अहम् एव ततः श्रेष्ठा दरिद्रे शृणु मे वचः
तल् लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यम् अब्रवीत्
वक्तुं न लक्ष्मीर् ज्येष्ठाहम् इति वै लज्जसे मुहुः पापेषु रमसे नित्यं विहाय पुरुषोत्तमम्
विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः
न तथा जायते पुंसां सुरया दारुणो मदः त्वत्संनिधानमात्रेण यथा वै विदुषाम् अपि
सदैव रमसे लक्ष्मीः प्रायस् त्वं पापकारिषु अहं वसामि योग्येषु धर्मशीलेषु सर्वदा
शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च
सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु निवसामि सदा लक्ष्मीस् तस्माज् ज्यैष्ठ्यं मयि स्थितम्
ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु निर्भयेषु वसिष्यामि लक्ष्मीस् त्वं शृणु ते स्थितिम्
राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च
अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा मित्रद्रोहिष्व् अनिष्टेषु भग्नचित्तेषु वर्तसे
एवं विवदमाने ते जग्मतुर् माम् उभे अपि तयोर् वाक्यम् उपश्रुत्य मयोक्ते ते उभे अपि
मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास् ततः स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे
विशेषतः पुनस् ताभ्यः कमण्डलुभवाश् च याः तत्रापि गौतमी देवी निश्चयं कथयिष्यति
सैव सर्वार्तिसंहर्त्री सैव संदेहकर्तरी ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि
अद्भिश् च सहिताः सर्वा गौतमीं ययुर् आपगाम् भूमिर् आपस् तयोर् वाक्यं गौतम्यै क्रमशः स्फुटम्
सर्वं निवेदयाम् आसुर् यथावृत्तं प्रणम्य ताम् दरिद्रायाश् च लक्ष्म्याश् च वाक्यं मध्यस्थवत् तदा
शृण्वत्सु लोकपालेषु शृण्वत्यां भुवि नारद शृण्वतीष्व् अप्सु सा गङ्गा दरिद्रां वाक्यम् अब्रवीत् संप्रशस्य तथा लक्ष्मीं गौतमी वाक्यम् अब्रवीत्
ब्रह्मश्रीश् च तपःश्रीश् च यज्ञश्रीः कीर्तिसंज्ञिता धनश्रीश् च यशश्रीश् च विद्या प्रज्ञा सरस्वती
भुक्तिश्रीश् चाथ मुक्तिश् च स्मृतिर् लज्जा धृतिः क्षमा सिद्धिस् तुष्टिस् तथा पुष्टिः शान्तिर् आपस् तथा मही
अहंशक्तिर् अथौषध्यः श्रुतिः शुद्धिर् विभावरी द्यौर् ज्योत्स्ना आशिषः स्वस्तिर् व्याप्तिर् माया उषा शिवा