पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः लोहिता यमदूताश् च तथा कारूषकाः स्मृताः
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च संबन्धो ऽप्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः
विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः
विश्वामित्रस्य पुत्रस् तु शुनःशेफो ऽभवत् किल हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः
देवैर् दत्तः शुनःशेफो विश्वामित्राय वै पुनः देवैर् दत्तः स वै यस्माद् देवरातस् ततो ऽभवत्
देवरातादयः सप्त विश्वामित्रस्य वै सुताः दृषद्वतीसुतश् चापि वैश्वामित्रस् तथाष्टकः
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः
आयोः पुत्राश् च ते पञ्च सर्वे वीरा महारथाः स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् रम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः
रजिः पुत्रशतानीह जनयाम् आस पञ्च वै राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम्
यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे देवाश् चैवासुराश् चैव पितामहम् अथाब्रुवन्
आवयोर् भगवन् युद्धे को विजेता भविष्यति ब्रूहि नः सर्वभूतेश श्रोतुम् इच्छाम तत्त्वतः
येषाम् अर्थाय संग्रामे रजिर् आत्तायुधः प्रभुः योत्स्यते ते विजेष्यन्ति त्रींल् लोकान् नात्र संशयः
यतो रजिर् धृतिस् तत्र श्रीश् च तत्र यतो धृतिः यतो धृतिश् च श्रीश् चैव धर्मस् तत्र जयस् तथा
ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा अभ्ययुर् जयम् इच्छन्तो वृण्वानास् तं नरर्षभम्
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत राजा परमतेजस्वी सोमवंशविवर्धनः
ते हृष्टमनसः सर्वे रजिं वै देवदानवाः ऊचुर् अस्मज्जयाय त्वं गृहाण वरकार्मुकम्
अथोवाच रजिस् तत्र तयोर् वै देवदैत्ययोः अर्थज्ञः स्वार्थम् उद्दिश्य यशः स्वं च प्रकाशयन्
यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे
देवाः प्रथमतो विप्राः प्रतीयुर् हृष्टमानसाः एवं यथेष्टं नृपते कामः संपद्यतां तव
श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस् तदा पप्रच्छासुरमुख्यांस् तु यथा देवान् अपृच्छत
दानवा दर्पसंपूर्णाः स्वार्थम् एवावगम्य ह प्रत्यूचुस् तं नृपवरं साभिमानम् इदं वचः
अस्माकम् इन्द्रः प्रह्रादो यस्यार्थे विजयामहे अस्मिंस् तु समरे राजंस् तिष्ठ त्वं राजसत्तम
स तथेति ब्रुवन्न् एव देवैर् अप्य् अतिचोदितः भविष्यसीन्द्रो जित्वैनं देवैर् उक्तस् तु पार्थिवः
जघान दानवान् सर्वान् ये ऽवध्या वज्रपाणिनः स विप्रनष्टां देवानां परमश्रीः श्रियं वशी
निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः ततो रजिं महावीर्यं देवैः सह शतक्रतुः
रजिपुत्रो ऽहम् इत्य् उक्त्वा पुनर् एवाब्रवीद् वचः इन्द्रो ऽसि तात देवानां सर्वेषां नात्र संशयः
यस्याहम् इन्द्रः पुत्रस् ते ख्यातिं यास्यामि कर्मभिः स तु शक्रवचः श्रुत्वा वञ्चितस् तेन मायया
तथैवेत्य् अब्रवीद् राजा प्रीयमाणः शतक्रतुम् तस्मिंस् तु देवैः सदृशो दिवं प्राप्ते महीपतौ
दायाद्यम् इन्द्राद् आजह्रू राज्यं तत्तनया रजेः पञ्च पुत्रशतान्य् अस्य तद् वै स्थानं शतक्रतोः