गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस् ततो ययौ आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिर् अभाषत
अहो दानप्रभावो ऽयम् अहो विष्णोर् अनुस्मृतिः अहो गङ्गाप्रभावश् च कैर् विचार्यो महान् अयम्
मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश् च बन्धुभिः पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिम् अवाप च
ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम्
तत्र श्रुतिः स्मृतिर् वापि तीर्थस्य स्यात् कथंचन तस्य विष्णुर् भवेत् प्रीतः पापैर् मुक्तः सुखी भवेत्
एकादश सहस्राणि तीर्थानां तीरयोर् द्वयोः सर्वार्थदायिनां तत्र स्नानदानजपादिभिः
लक्ष्मीतीर्थम् इति ख्यातं साक्षाल् लक्ष्मीविवर्धनम् अलक्ष्मीनाशनं पुण्यम् आख्यानं शृणु नारद
संवादश् च पुरा त्व् आसील् लक्ष्म्याः पुत्र दरिद्रया परस्परविरोधिन्याव् उभे विश्वं समीयतुः
ताभ्याम् अव्यापृतं वस्तु तन् नास्ति भुवनत्रये मम ज्यैष्ठ्यं मम ज्यैष्ठ्यम् इत्य् ऊचतुर् उभे मिथः अहं पूर्वं समुद्भूता इत्य् आह श्रियम् ओजसा
कुलं शीलं जीवितं वा देहिनाम् अहम् एव तु मया विना देहभाजो जीवन्तो ऽपि मृता इव
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्य् अधिका ह्य् अहम् मुक्तिर् मदाश्रिता नित्यं दरिद्रैवं वचो ऽब्रवीत्
कामः क्रोधश् च लोभश् च मदो मात्सर्यम् एव च यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
न भयोद्भूतिर् उन्माद ईर्ष्या उद्धतवृत्तिता यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
दरिद्राया वचः श्रुत्वा लक्ष्मीस् तां प्रत्यभाषत
अलंकृतो मया जन्तुः सर्वो भवति पूजितः निर्धनः शिवतुल्यो ऽपि सर्वैर् अप्य् अभिभूयते
देहीति वचनद्वारा देहस्थाः पञ्च देवताः सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः
तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम्
तावत् सर्वोत्तमो जन्तुस् तावत् सर्वगुणालयः नमस्यः सर्वलोकानां यावन् नार्थयते परम्
कष्टम् एतन् महापापं निर्धनत्वं शरीरिणाम् न मानयति नो वक्ति न स्पृशत्य् अधनं जनः
अहम् एव ततः श्रेष्ठा दरिद्रे शृणु मे वचः
तल् लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यम् अब्रवीत्
वक्तुं न लक्ष्मीर् ज्येष्ठाहम् इति वै लज्जसे मुहुः पापेषु रमसे नित्यं विहाय पुरुषोत्तमम्
विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः
न तथा जायते पुंसां सुरया दारुणो मदः त्वत्संनिधानमात्रेण यथा वै विदुषाम् अपि
सदैव रमसे लक्ष्मीः प्रायस् त्वं पापकारिषु अहं वसामि योग्येषु धर्मशीलेषु सर्वदा
शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च
सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु निवसामि सदा लक्ष्मीस् तस्माज् ज्यैष्ठ्यं मयि स्थितम्
ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु निर्भयेषु वसिष्यामि लक्ष्मीस् त्वं शृणु ते स्थितिम्
राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च
अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा मित्रद्रोहिष्व् अनिष्टेषु भग्नचित्तेषु वर्तसे