भक्त्या मुक्तिः सर्वपूज्या ताम् इच्छेयं जगन्मय
एतद् एवान्तरं ब्रह्मन् दीयते माम् अनुस्मरन् ब्राह्मणायाथवार्थिभ्यस् तद् एवाक्षयतां व्रजेत्
माम् अध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् तत् पुनर् दत्तम् एवेह न भोगायात्र कल्पते
तस्माद् देहि महाबुद्धे भोज्यं किंचिन् मम ध्रुवम् अथवा विप्रमुख्याय गौतमीतीरम् आश्रितः
मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते नान्यत् किंचन देहादि यत् तत् त्वयि समर्पितम्
ततो विष्णुर् गरुत्मन्तं प्राह शीघ्रं जगत्पतिः इहानयस्व कणिशं ममायं चार्पयिष्यति
ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट्
विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः एतस्मिन्न् अन्तरे विष्णुर् विश्वकर्माणम् अब्रवीत्
यावच् चास्य कुले सप्त पुरुषास् तावद् एव तु भवितारो महाबुद्धे तावत् कामा मनीषिताः गावो हिरण्यं धान्यानि वस्त्राण्य् आभरणानि च
यच् च किंचिन् मनःप्रीत्यै लोके भवति भूषणम् तत् सर्वम् आप मौद्गल्यो विष्णुगङ्गाप्रभावतः
गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस् ततो ययौ आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिर् अभाषत
अहो दानप्रभावो ऽयम् अहो विष्णोर् अनुस्मृतिः अहो गङ्गाप्रभावश् च कैर् विचार्यो महान् अयम्
मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश् च बन्धुभिः पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिम् अवाप च
ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम्
तत्र श्रुतिः स्मृतिर् वापि तीर्थस्य स्यात् कथंचन तस्य विष्णुर् भवेत् प्रीतः पापैर् मुक्तः सुखी भवेत्
एकादश सहस्राणि तीर्थानां तीरयोर् द्वयोः सर्वार्थदायिनां तत्र स्नानदानजपादिभिः
लक्ष्मीतीर्थम् इति ख्यातं साक्षाल् लक्ष्मीविवर्धनम् अलक्ष्मीनाशनं पुण्यम् आख्यानं शृणु नारद
संवादश् च पुरा त्व् आसील् लक्ष्म्याः पुत्र दरिद्रया परस्परविरोधिन्याव् उभे विश्वं समीयतुः
ताभ्याम् अव्यापृतं वस्तु तन् नास्ति भुवनत्रये मम ज्यैष्ठ्यं मम ज्यैष्ठ्यम् इत्य् ऊचतुर् उभे मिथः अहं पूर्वं समुद्भूता इत्य् आह श्रियम् ओजसा
कुलं शीलं जीवितं वा देहिनाम् अहम् एव तु मया विना देहभाजो जीवन्तो ऽपि मृता इव
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्य् अधिका ह्य् अहम् मुक्तिर् मदाश्रिता नित्यं दरिद्रैवं वचो ऽब्रवीत्
कामः क्रोधश् च लोभश् च मदो मात्सर्यम् एव च यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
न भयोद्भूतिर् उन्माद ईर्ष्या उद्धतवृत्तिता यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन
दरिद्राया वचः श्रुत्वा लक्ष्मीस् तां प्रत्यभाषत
अलंकृतो मया जन्तुः सर्वो भवति पूजितः निर्धनः शिवतुल्यो ऽपि सर्वैर् अप्य् अभिभूयते
देहीति वचनद्वारा देहस्थाः पञ्च देवताः सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः
तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम्
तावत् सर्वोत्तमो जन्तुस् तावत् सर्वगुणालयः नमस्यः सर्वलोकानां यावन् नार्थयते परम्
कष्टम् एतन् महापापं निर्धनत्वं शरीरिणाम् न मानयति नो वक्ति न स्पृशत्य् अधनं जनः
अहम् एव ततः श्रेष्ठा दरिद्रे शृणु मे वचः