ततो ऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् याहि वत्स स्वभवनं श्रान्तो ऽसीति पुनः पुनः
एवम् उक्तः स देवेन विष्णुना याति स द्विजः जगत्प्रभुस् ततो याति देवैर् युक्तः स्वमन्दिरम्
मौद्गल्यो ऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः स्वम् एव भवनं विद्वान् भार्यायै स्वार्जितं धनम्
ददाति स महाविष्णुचरणाब्जपरायणः मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा
शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः सुसंस्कृत्याप्य् अतिथीनां बालानां भर्तुर् एव च
दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता भुक्तवत्स्व् अथ सर्वेषु रात्रौ नित्यं स मौद्गलिः
विष्णोः श्रुताः कथाश् चित्रास् तेभ्यो वक्त्य् अथ हर्षितः एवं बहुतिथे काले व्यतीते चातिविस्मिता मौद्गल्यस्य रहो भार्या भर्तारं वाक्यम् अब्रवीत्
यदि ते विष्णुर् अभ्येति समीपं त्रिदशार्चितः तथापि कष्टम् अस्माकं कस्माद् इति जगत्प्रभुम्
तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुर् एति च यस्मिंश् च स्मृतमात्रे तु जराजन्मरुजो मृतिः नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम्
तथेत्य् उक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् पूजयित्वा विनीतश् च पप्रच्छ स कृताञ्जलिः
त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् नाशं याति विपत्तिर् मे त्वयि दृष्टे कथं स्थिता
स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा न कोपि कस्यचित् किंचित् करोत्य् अत्र हिताहिते
यादृशं चोप्यते बीजं फलं भवति तादृशम् रसालः स्यान् न निम्बस्य बीजाज् जात्व् अपि कुत्रचित्
न कृता गौतमीसेवा नार्चितौ हरिशंकरौ न दत्तं यैश् च विप्रेभ्यस् ते कथं भाजनं श्रियः
त्वया न दत्तं किंचिच् च ब्राह्मणेभ्यो ममापि च यद् दीयते तद् एवेह परस्मिंश् चोपतिष्ठति
मृद्भिर् वार्भिः कुशैर् मन्त्रैः शुचिकर्म सदैव यत् करोति तस्मात् पूतात्मा शरीरस्य च शोषणात्
विना दानेन न क्वापि भोगावाप्तिर् नृणां भवेत् सत्कर्माचरणाच् छुद्धो विरक्तः स्यात् ततो नरः
ततो ऽप्रतिहतज्ञानो जीवन्मुक्तस् ततो भवेत् सर्वेषां सुलभा मुक्तिर् मद्भक्त्या चेह पूर्ततः
भुक्तिर् दानादिना सर्वभूतदुःखनिबर्हणात् अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे
भक्त्या मुक्तिः कथं भूयाद् भुक्तेर् मुक्तिः सुदुर्लभा जाता चेद् देहिनां मुक्तिः किम् अन्येन प्रयोजनम्
भक्त्या मुक्तिः सर्वपूज्या ताम् इच्छेयं जगन्मय
एतद् एवान्तरं ब्रह्मन् दीयते माम् अनुस्मरन् ब्राह्मणायाथवार्थिभ्यस् तद् एवाक्षयतां व्रजेत्
माम् अध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् तत् पुनर् दत्तम् एवेह न भोगायात्र कल्पते
तस्माद् देहि महाबुद्धे भोज्यं किंचिन् मम ध्रुवम् अथवा विप्रमुख्याय गौतमीतीरम् आश्रितः
मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते नान्यत् किंचन देहादि यत् तत् त्वयि समर्पितम्
ततो विष्णुर् गरुत्मन्तं प्राह शीघ्रं जगत्पतिः इहानयस्व कणिशं ममायं चार्पयिष्यति
ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट्
विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः एतस्मिन्न् अन्तरे विष्णुर् विश्वकर्माणम् अब्रवीत्
यावच् चास्य कुले सप्त पुरुषास् तावद् एव तु भवितारो महाबुद्धे तावत् कामा मनीषिताः गावो हिरण्यं धान्यानि वस्त्राण्य् आभरणानि च
यच् च किंचिन् मनःप्रीत्यै लोके भवति भूषणम् तत् सर्वम् आप मौद्गल्यो विष्णुगङ्गाप्रभावतः