ततः सा विह्वला भूत्वा नदीभावम् उपागता तद् दृष्ट्वा विस्मितो भीतस् ताम् अब्रवम् अहं तदा
यस्माद् असत्यम् उक्तासि ब्रह्मवाचि स्थिता सती तस्माद् अदृश्या त्वं भूयाः पापरूपास्य् असंशयम्
एतच् छापं विदित्वा तु तौ देवौ प्रणता तदा विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः
ततस् तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ प्रीत्या हरिहराव् एवं वाचं वाचम् अथोचतुः
गङ्गया संगता भद्रे यदा त्वं लोकपावनी तदा पुनर् वपुस् ते स्यात् पवित्रं हि सुशोभने
तथेत्य् उक्त्वा सापि देवी गङ्गया संगताभवत् भागीरथी गौतमी च ततश् चापि स्वकं वपुः
देवी सा व्यगमद् ब्रह्मन् देवानाम् अपि दुर्लभम् गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा
भागीरथ्यां सैव देवी सरस्वत्य् अभिधीयते उभयत्रापि विख्यातः संगमो लोकपूजितः
सरस्वतीसंगमश् च वाणीसंगम एव च गौतम्या संगता देवी वाणी वाचा सरस्वती
सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् देवेश्वरं पूजयित्वा विशापम् अगमद् यतः
ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः तस्मात् तत्र शुचिर् भूत्वा स्नात्वा तत्र च संगमे
वागीश्वरं ततो दृष्ट्वा तावता मुक्तिम् आप्नुयात् दानहोमादिकं किंचिद् उपवासादिकां क्रियाम्
यः कुर्यात् संगमे पुण्ये संसारे न भवेत् पुनः एकोनविंशतिशतं तीर्थानां तीरयोर् द्वयोः नानाजन्मार्जिताशेषपापक्षयविधायिनाम्
विष्णुतीर्थम् इति ख्यातं तत्र वृत्तम् इदं शृणु मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः
तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी पिता ऋषिस् तथा वृद्धो मुद्गलो लोकविश्रुतः
तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा स मौद्गल्यः प्रातर् एव गङ्गां स्नाति यतव्रतः
नित्यम् एव त्व् इदं कर्म तस्यासीन् मुनिसत्तम गङ्गातीरे कुशैर् मृद्भिः शमीपुष्पैर् अहर्निशम्
गुरूदितेन मार्गेण स्वमानससरोरुहे आवाहनं नित्यम् एव विष्णोश् चक्रे स मौद्गलिः
तेनाहूतस् त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः वैनतेयम् अथारुह्य शङ्खचक्रगदाधरः
पूजितस् तेन ऋषिणा स मौद्गल्येन यत्नतः प्रब्रूते च कथाश् चित्रा मौद्गल्याय जगत्प्रभुः
ततो ऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् याहि वत्स स्वभवनं श्रान्तो ऽसीति पुनः पुनः
एवम् उक्तः स देवेन विष्णुना याति स द्विजः जगत्प्रभुस् ततो याति देवैर् युक्तः स्वमन्दिरम्
मौद्गल्यो ऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः स्वम् एव भवनं विद्वान् भार्यायै स्वार्जितं धनम्
ददाति स महाविष्णुचरणाब्जपरायणः मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा
शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः सुसंस्कृत्याप्य् अतिथीनां बालानां भर्तुर् एव च
दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता भुक्तवत्स्व् अथ सर्वेषु रात्रौ नित्यं स मौद्गलिः
विष्णोः श्रुताः कथाश् चित्रास् तेभ्यो वक्त्य् अथ हर्षितः एवं बहुतिथे काले व्यतीते चातिविस्मिता मौद्गल्यस्य रहो भार्या भर्तारं वाक्यम् अब्रवीत्
यदि ते विष्णुर् अभ्येति समीपं त्रिदशार्चितः तथापि कष्टम् अस्माकं कस्माद् इति जगत्प्रभुम्
तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुर् एति च यस्मिंश् च स्मृतमात्रे तु जराजन्मरुजो मृतिः नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम्
तथेत्य् उक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् पूजयित्वा विनीतश् च पप्रच्छ स कृताञ्जलिः