मायारूपां तु प्रमदां भक्षयाम् आस नारद तद् अद्भुतम् अतीवासीत् तन्मायाबलदर्शिनाम्
मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः प्रादाद् विष्णुश् चक्रम् अथो मुनीनां रक्षणाय तु
चक्रं तद् राक्षसान् आजौ दैत्यांश् च दनुजांस् तथा चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः
ऋषिभिस् तन् महासत्त्रं संपूर्णम् अभवत् तदा विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम्
ततः प्रभृति तत् तीर्थं चक्रतीर्थम् उदाहृतम् तत्र स्नानेन दानेन सत्त्रयागफलं लभेत्
तत्र पञ्च शतान्य् आसंस् तीर्थानां पापहारिणाम् तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम्
वाणीसंगमम् आख्यातं यत्र वागीश्वरो हरः तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम्
तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ब्रह्मविष्ण्वोश् च संवादे महत्त्वे च परस्परम्
तयोर् मध्ये महादेवो ज्योतिर्मूर्तिर् अभूत् किल तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा
अहम् अस्मि महांस् तत्र अहम् अस्मीति वै मिथः दैवी वाक् ताव् उभौ प्राह यस् त्व् अस्यान्तं तु पश्यति
स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुम् अर्हथः तद्वाक्याद् विष्णुर् अगमद् अधो ऽहं चोर्ध्वम् एव च
ततो विष्णुः शीघ्रम् एत्य ज्योतिःपार्श्व उपाविशत् अप्राप्यान्तम् अहं प्रायां दूराद् दूरतरं मुने
ततः श्रान्तो निवृत्तो ऽहं द्रष्टुम् ईशं तु तं प्रभुम् तदैवं मम धीर् आसीद् दृष्टश् चान्तो मया भृशम्
अस्य देवस्य तद् विष्णोर् मम ज्यैष्ठ्यं स्फुटं भवेत् पुनश् चापि मम त्व् एवं मतिर् आसीन् महामते
सत्यैर् वक्त्रैः कथं वक्ष्ये पीडितो ऽप्य् अनृतं वचः नानाविधेषु पापेषु नानृतात् पातकं परम्
सत्यैर् वक्त्रैर् असत्यां वा वाचं वक्ष्ये कथं त्व् इति ततो ऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम्
कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम्
अस्य चान्तो मया दृष्टस् तेन ज्यैष्ठ्यं जनार्दन ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ
एकरूपत्वम् आपन्नौ सूर्याचन्द्रमसाव् इव तौ दृष्ट्वा विस्मितो भीतश् चास्तवं ताव् उभाव् अपि ततः क्रुद्धौ जगन्नाथौ वाचं ताम् इदम् ऊचतुः
दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम्
ततः सा विह्वला भूत्वा नदीभावम् उपागता तद् दृष्ट्वा विस्मितो भीतस् ताम् अब्रवम् अहं तदा
यस्माद् असत्यम् उक्तासि ब्रह्मवाचि स्थिता सती तस्माद् अदृश्या त्वं भूयाः पापरूपास्य् असंशयम्
एतच् छापं विदित्वा तु तौ देवौ प्रणता तदा विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः
ततस् तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ प्रीत्या हरिहराव् एवं वाचं वाचम् अथोचतुः
गङ्गया संगता भद्रे यदा त्वं लोकपावनी तदा पुनर् वपुस् ते स्यात् पवित्रं हि सुशोभने
तथेत्य् उक्त्वा सापि देवी गङ्गया संगताभवत् भागीरथी गौतमी च ततश् चापि स्वकं वपुः
देवी सा व्यगमद् ब्रह्मन् देवानाम् अपि दुर्लभम् गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा
भागीरथ्यां सैव देवी सरस्वत्य् अभिधीयते उभयत्रापि विख्यातः संगमो लोकपूजितः
सरस्वतीसंगमश् च वाणीसंगम एव च गौतम्या संगता देवी वाणी वाचा सरस्वती
सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् देवेश्वरं पूजयित्वा विशापम् अगमद् यतः