चक्रतीर्थम् इति ख्यातं स्मरणात् पापनाशनम् तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद
ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने गौतम्यास् तीरम् आश्रित्य सत्त्रयज्ञम् उपासते
तत्र विघ्न उपक्रान्ते रक्षोभिर् अतिभीषणे माम् अभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन्
तदाहं प्रमदारूपं माययासृज्य नारद यस्याश् च दर्शनाद् एव नाशं यान्त्य् अथ राक्षसाः
एवम् उक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने मद्वाक्याद् ऋषयो मायाम् आदाय पुनर् आगमन्
अजैका या समाख्याता कृष्णलोहितरूपिणी मुक्तकेशीत्य् अभिधया सास्ते ऽद्यापि स्वरूपिणी
लोकत्रितयसंमोहदायिनी कामरूपिणी तद्बलात् स्वस्थमनसः सर्वे च मुनिपुंगवः
गौतमीं सरितां श्रेष्ठां पुनर् यज्ञाय दीक्षिताः पुनस् तन्मखनाशाय राक्षसाः समुपागमन्
यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च
माहेश्वरी महामाया प्रभावेणातिदर्पिता तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान्
मायारूपां तु प्रमदां भक्षयाम् आस नारद तद् अद्भुतम् अतीवासीत् तन्मायाबलदर्शिनाम्
मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः प्रादाद् विष्णुश् चक्रम् अथो मुनीनां रक्षणाय तु
चक्रं तद् राक्षसान् आजौ दैत्यांश् च दनुजांस् तथा चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः
ऋषिभिस् तन् महासत्त्रं संपूर्णम् अभवत् तदा विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम्
ततः प्रभृति तत् तीर्थं चक्रतीर्थम् उदाहृतम् तत्र स्नानेन दानेन सत्त्रयागफलं लभेत्
तत्र पञ्च शतान्य् आसंस् तीर्थानां पापहारिणाम् तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम्
वाणीसंगमम् आख्यातं यत्र वागीश्वरो हरः तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम्
तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ब्रह्मविष्ण्वोश् च संवादे महत्त्वे च परस्परम्
तयोर् मध्ये महादेवो ज्योतिर्मूर्तिर् अभूत् किल तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा
अहम् अस्मि महांस् तत्र अहम् अस्मीति वै मिथः दैवी वाक् ताव् उभौ प्राह यस् त्व् अस्यान्तं तु पश्यति
स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुम् अर्हथः तद्वाक्याद् विष्णुर् अगमद् अधो ऽहं चोर्ध्वम् एव च
ततो विष्णुः शीघ्रम् एत्य ज्योतिःपार्श्व उपाविशत् अप्राप्यान्तम् अहं प्रायां दूराद् दूरतरं मुने
ततः श्रान्तो निवृत्तो ऽहं द्रष्टुम् ईशं तु तं प्रभुम् तदैवं मम धीर् आसीद् दृष्टश् चान्तो मया भृशम्
अस्य देवस्य तद् विष्णोर् मम ज्यैष्ठ्यं स्फुटं भवेत् पुनश् चापि मम त्व् एवं मतिर् आसीन् महामते
सत्यैर् वक्त्रैः कथं वक्ष्ये पीडितो ऽप्य् अनृतं वचः नानाविधेषु पापेषु नानृतात् पातकं परम्
सत्यैर् वक्त्रैर् असत्यां वा वाचं वक्ष्ये कथं त्व् इति ततो ऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम्
कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम्
अस्य चान्तो मया दृष्टस् तेन ज्यैष्ठ्यं जनार्दन ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ
एकरूपत्वम् आपन्नौ सूर्याचन्द्रमसाव् इव तौ दृष्ट्वा विस्मितो भीतश् चास्तवं ताव् उभाव् अपि ततः क्रुद्धौ जगन्नाथौ वाचं ताम् इदम् ऊचतुः
दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम्