ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम् तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात्
विश्वावसोः प्रसन्नो ऽभूद् यत्र शंभुः शिवान्वितः शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम्
सर्वपापौघहरणं सर्वदुर्गतिनाशनम् सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम्
शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात्
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः तस्य पैठीनसी नाम भार्या सुकलभूषणा
गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत्
पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः
यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम्
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् संध्यासुतो ऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः
ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ममानुजः कलिश् चापि बलवान् अतिभीषणः
अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम्
भरद्वाज निबोधेदं वाक्यं मम समासतः ब्रह्मणाहं पुरा शप्तो देवदानवसंनिधौ
ततः प्रसादितो देवो मया लोकपितामहः अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा एवं करिष्यसि यदा ततः सर्वं भविष्यति
भरद्वाजः पुनः प्राह सखा मे ऽसि महामते मखसंरक्षणं येन स्यान् मे वद करोमि तत्
संभूय देवा दैतेया ममन्थुः क्षीरसागरम् अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम्
प्रीत्या यदि प्रसन्नो ऽसि सुलभं यद् वदस्व तत् तद् ऋषेर् वचनं श्रुत्वा रक्षः प्राह तदा मुदा
अमृतं गौतमीवारि अमृतं स्वर्णम् उच्यते अमृतं गोभवं चाज्यम् अमृतं सोम एव च
एतैर् माम् अभिषिञ्चस्व अथवैतैस् तथा त्रिभिः गङ्गाया वारिणाज्येन हिरण्येन तथैव च सर्वेभ्यो ऽप्य् अधिकं दिव्यम् अमृतं गौतमीजलम्
एतद् आकर्ण्य स ऋषिः परं संतोषम् आगतः पाणाव् आदाय गङ्गायाः सलिलामृतम् आदरात्
तेनाकरोद् ऋषी रक्षो ह्य् अभिषिक्तं तदा मखे पुनश् च यूपे च पशाव् ऋत्विक्षु मखमण्डले
सर्वम् एवाभवच् छुक्लम् अभिषेकान् महात्मनः तद् रक्षो ऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः
यः पुरा कृष्णरूपो ऽभूत् स तु शुक्लो ऽभवत् क्षणात् यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान्
ऋत्विजो ऽपि विसृज्याथ यूपं गङ्गोदके ऽक्षिपत् गङ्गामध्ये तद् धि यूपम् अद्याप्य् आस्ते महामते
अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् तत्र तीर्थे पुना रक्षो भरद्वाजम् उवाच ह
अहं यामि भरद्वाज कृतः शुक्लस् त्वया पुनः तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम्
कुर्युस् तेषाम् अभीष्टानि भवेयुर् यत् फलं मखे स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने
ततः प्रभृति तत् तीर्थं शुक्लतीर्थम् इति स्मृतम् गौतम्यां दण्डकारण्ये स्वर्गद्वारम् अपावृतम्
उभयोस् तीरयोः सप्त सहस्राण्य् अपराणि च तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्