तद् देवयजनं प्राप्य किंचिद् धुत्वा हुताशने अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम्
यः सकृत् तत्र पठति गायत्रीं वेदमातरम् अधीतास् तेन वेदा वै निष्कामो मुक्तिभाजनम्
स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात्
ब्रह्मविष्णुमहेशानां शक्तिर् माता त्रयीमयी सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत्
आदित्यं भक्तितो यस् तु दक्षिणे नियतो नरः स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः
कूले यश् चोत्तरे चैव गङ्गाया दैत्यसूदनम् स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम्
यमेश्वरं ततो यस् तु यमतीर्थे तु पूजितम् स्नातः पश्यति युक्तात्मा स करोत्य् अचिरेण हि
पितॄणाम् अक्षयं पुण्यं फलदं कीर्तिवर्धनम् तत्र स्नानेन दानेन जपेन स्तवनेन च अपि दुष्कृतकर्माणः पितरो मोक्षम् आप्नुयुः
इत्याद्य् अष्ट सहस्राणि तीर्थानि त्रीणि नारद तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम्
एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह
तेषाम् अप्य् अतिपापानि नाशं यान्ति ममाज्ञया तत्र स्नानादि यः कृत्वा किंचिद् दत्त्वा यतात्मवान्
पितॄणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान् धनं धान्यं यशो वीर्यम् आयुर् आरोग्यसंपदः
पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम् अवियुक्तः प्रीतमना बन्धुभिश् चातिमानितः
नरकस्थान् अपि पितॄंस् तारयित्वा कुलानि च पावयित्वा प्रियैर् युक्तो ह्य् अन्ते विष्णुं शिवं स्मरेत् ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम् तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात्
यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत्
विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी ऋषीणां सत्त्रम् अगमद् गौतमीतीरवर्तिनाम्
दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम्
विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव ततो नद्य् अभवत् तत्र यक्षिणीति सुविश्रुता
ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् संगम्य चैव गौतम्या तां विशापाम् अथाकरोत्
ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम् तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात्
विश्वावसोः प्रसन्नो ऽभूद् यत्र शंभुः शिवान्वितः शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम्
सर्वपापौघहरणं सर्वदुर्गतिनाशनम् सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम्
शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात्
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः तस्य पैठीनसी नाम भार्या सुकलभूषणा
गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत्
पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः
यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम्
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् संध्यासुतो ऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः
ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ममानुजः कलिश् चापि बलवान् अतिभीषणः