ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव मर्त्यलोके पापभूता अज्ञानात् पापकारिणी
तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत यथा शप्ता मघवता पापात् सा ह्य् अतिभीषणा
गावो या राक्षसैर् नीतास् तासाम् आनयनाय च यत्नं कुर्वन् सुरपतिर् विष्णवे तन् न्यवेदयत्
विष्णुर् दैत्यांश् च दनुजान् गोहर्तॄंश् चैव राक्षसान् हन्तुं प्रयत्नम् अकरोज् जगृहे च महद् धनुः
शार्ङ्गं यल् लोकविख्यातं दैत्यनाशनम् एव च जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः
यत्र वै दण्डकारण्ये शार्ङ्गपाणिर् जगत्प्रभुः तत्रस्थान् दैत्यदनुजान् राक्षसांश् च बलीयसः
पुनर् जघ्ने स वै विष्णुर् गा यैर् नीताश् च राक्षसैः तत्र वै दण्डकारण्ये शार्ङ्गपाणिर् इति श्रुतः
युध्यमानस् ततो विष्णुर् दितिजै राक्षसैः सह ते जग्मुर् दक्षिणाम् आशां विष्णोस् त्रासान् महामुने
अन्वगच्छत् ततो विष्णुस् तान् एव परमेश्वरः गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर् मनोजवैः
बाणैस् तान् व्याहनद् विष्णुर् गङ्गाया उत्तरे तटे देवारयः क्षयं नीता विष्णुना प्रभविष्णुना
शार्ङ्गमुक्तैर् महावेगैः सुस्वनैश् च सुमन्त्रितैः क्षयं प्राप्ता विष्णुबाणैस् ततस् ते देवशत्रवः
गावो लब्धा यत्र देवैर् बाणतीर्थं तद् उच्यते वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम्
पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे प्रद्रुतास् ते सुराः सर्वे गङ्गायां संन्यवेशयन्
तन्मध्ये कारयाम् आसुर् द्वीपं चैवाश्रयं गवाम् तैर् गोभिस् तत्र गङ्गायां सुरयज्ञो व्यजायत
यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः देवानां यजनं तच् च सर्वकामप्रदं शुभम्
स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर् महाद्युते असारापारसंसारसागरोत्तरणे तरिः
विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी गोरक्षं तु ततस् तीर्थं गङ्गाया दक्षिणे तटे
तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ मातुः शापं चापराधं सर्वं चापि सविस्तरम्
निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् विशापकरणं चापि पप्रच्छतुर् उभौ यमम्
स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम
लोकत्रयैकपावन्यां गौतम्यां दण्डके वने श्रद्धया परया वत्स सुस्नातः सुसमाहितः
ब्रह्माणं चैव विष्णुं च माम् ईशं च यथाक्रमम् स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिम् अवाप्स्यतः
तत् पितुर् वचनं श्रुत्वा यमः प्रीतमनास् तदा तयोश् च प्रीतये प्रायाद् देवतर्पणयोर् यमः
गौतम्याम् अघहारिण्यां सुसमाहितमानसः तथैव तोषयाम् आस गङ्गायां सुरसत्तमान्
श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः ब्रह्माणं तोषयाम् आस भानुं वै दक्षिणे तटे
ईशानम् उत्तरे विष्णुं स्वयं धर्मः प्रतापवान् दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् वरान् अयाचत बहूंल् लोकानाम् उपकारकान्
एषु स्नानं तु ये कुर्युर् ब्रह्मविष्णुमहेश्वराः आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान्
बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै तेभ्यो दारिद्र्यदुःखानि न भवेयुर् युगे युगे
गोतीर्थे ब्रह्मतीर्थे वा यस् तु स्नात्वा यतव्रतः ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम्
यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुंधरा प्रदक्षिणीकृता तत्र किंचिद् दत्त्वा वसु द्विजम्