यस्मात् परं नान्यद् अस्ति प्रशस्तं यस्मात् परं नैव सुसूक्ष्मम् अन्यत् यस्मात् परं नो महतां महच् च सोमेश्वरं तं शरणं व्रजामि
यस्याज्ञया विश्वम् इदं विचित्रम् अचिन्त्यरूपं विविधं महच् च एकक्रियं यद्वद् अनुप्रयाति सोमेश्वरं तं शरणं व्रजामि
यस्मिन् विभूतिः सकलाधिपत्यं कर्तृत्वदातृत्वमहत्त्वम् एव प्रीतिर् यशः सौख्यम् अनादिधर्मः सोमेश्वरं तं शरणं व्रजामि
नित्यं शरण्यः सकलस्य पूज्यो नित्यं प्रियो यः शरणागतस्य नित्यं शिवो यः सकलस्य रूपं सोमेश्वरं तं शरणं व्रजामि
ततः प्रसन्नो भगवान् आह नारद तं मुनिम् आत्मार्थं च परार्थं च आपस्तम्बो ऽब्रवीच् छिवम्
सर्वान् कामान् आप्नुयुस् ते ये स्नात्वा देवम् ईश्वरम् पश्येयुर् जगताम् ईशम् अस्त्व् इत्य् आह शिवो मुनिम्
ततः प्रभृति तत् तीर्थम् आपस्तम्बम् उदाहृतम् अनाद्य् अविद्यातिमिरव्रातनिर्मूलनक्षमम्
यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् अशेषपापशमनं तत्र वृत्तम् इदं शृणु
तत्राख्यानम् इदं त्व् आसीद् इतिहासं पुरातनम् सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने
तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ
गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् रक्षन्तीम् अनुजग्मुस् ते राक्षसा दैत्यदानवाः
रक्षन्तीं तां महाप्राज्ञाः श्वानयोर् मातरं शुनीम् प्रलोभयित्वा विविधैर् वाक्यैर् दानैश् च यत्नतः
हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः तत आगत्य सा देवान् इदम् आह क्रमाच् छुनी
मां बद्ध्वा राक्षसैः पाशैस् ताडयित्वा प्रहारकैः नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः
तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः
इयं विकृतरूपास्ते अस्याः पापं च लक्षये अस्या मतेन ता गावो नीता नान्येन हेतुना पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः
तद् गुरोर् वचनाच् छक्रः पदा तां प्राहरच् छुनीम् पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे
पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि राक्षसैश् च तदा दत्तं तस्मान् नीतास् तु गा मम
नापराधो ऽस्ति मे नाथ न चान्यस्यापि कस्यचित् नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर तस्माद् रुष्टो ऽसि किं नाथ रिपवो बलिनस् तु ते
ततो ध्यात्वा देवगुरुर् ज्ञात्वा तस्या विचेष्टितम् सत्यं शक्र त्व् इयं दुष्टा रिपूणां पक्षकारिणी
ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव मर्त्यलोके पापभूता अज्ञानात् पापकारिणी
तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत यथा शप्ता मघवता पापात् सा ह्य् अतिभीषणा
गावो या राक्षसैर् नीतास् तासाम् आनयनाय च यत्नं कुर्वन् सुरपतिर् विष्णवे तन् न्यवेदयत्
विष्णुर् दैत्यांश् च दनुजान् गोहर्तॄंश् चैव राक्षसान् हन्तुं प्रयत्नम् अकरोज् जगृहे च महद् धनुः
शार्ङ्गं यल् लोकविख्यातं दैत्यनाशनम् एव च जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः
यत्र वै दण्डकारण्ये शार्ङ्गपाणिर् जगत्प्रभुः तत्रस्थान् दैत्यदनुजान् राक्षसांश् च बलीयसः
पुनर् जघ्ने स वै विष्णुर् गा यैर् नीताश् च राक्षसैः तत्र वै दण्डकारण्ये शार्ङ्गपाणिर् इति श्रुतः
युध्यमानस् ततो विष्णुर् दितिजै राक्षसैः सह ते जग्मुर् दक्षिणाम् आशां विष्णोस् त्रासान् महामुने
अन्वगच्छत् ततो विष्णुस् तान् एव परमेश्वरः गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर् मनोजवैः
बाणैस् तान् व्याहनद् विष्णुर् गङ्गाया उत्तरे तटे देवारयः क्षयं नीता विष्णुना प्रभविष्णुना