प्रपञ्चस्य निमित्तं यत् तज् ज्योतिश् च परं शिवः तम् एव साधय हरं भक्त्या परमया मुने गौतम्यां सकलाघौघसंहर्ता दण्डके वने
एतच् छ्रुत्वा मुनेर् वाक्यं परां प्रीतिम् उपागतः भुक्तिदो मुक्तिदः पुंसां साकारो ऽथ निराकृतिः
सृष्ट्याकारस् ततः शक्तः पालनाकार एव च दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते
ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा रुद्राकृतिर् निहन्त्री सा सर्ववेदेषु पठ्यते
आपस्तम्बस् तदा गङ्गां गत्वा स्नात्वा यतव्रतः तुष्टाव शंकरं देवं स्तोत्रेणानेन नारद
काष्ठेषु वह्निः कुसुमेषु गन्धो बीजेषु वृक्षादि दृषत्सु हेम भूतेषु सर्वेषु तथास्ति यो वै तं सोमनाथं शरणं व्रजामि
यो लीलया विश्वम् इदं चकार धाता विधाता भुवनत्रयस्य यो विश्वरूपः सदसत्परो यः सोमेश्वरं तं शरणं व्रजामि
यं स्मृत्य दारिद्र्यमहाभिशाप रोगादिभिर् न स्पृश्यते शरीरी यम् आश्रिताश् चेप्सितम् आप्नुवन्ति सोमेश्वरं तं शरणं व्रजामि
येन त्रयीधर्मम् अवेक्ष्य पूर्वं ब्रह्मादयस् तत्र समीहिताश् च एवं द्विधा येन कृतं शरीरं सोमेश्वरं तं शरणं व्रजामि
यस्मै नमो गच्छति मन्त्रपूतं हुतं हविर् या च कृता च पूजा दत्तं हविर् येन सुरा भजन्ते सोमेश्वरं तं शरणं व्रजामि
यस्मात् परं नान्यद् अस्ति प्रशस्तं यस्मात् परं नैव सुसूक्ष्मम् अन्यत् यस्मात् परं नो महतां महच् च सोमेश्वरं तं शरणं व्रजामि
यस्याज्ञया विश्वम् इदं विचित्रम् अचिन्त्यरूपं विविधं महच् च एकक्रियं यद्वद् अनुप्रयाति सोमेश्वरं तं शरणं व्रजामि
यस्मिन् विभूतिः सकलाधिपत्यं कर्तृत्वदातृत्वमहत्त्वम् एव प्रीतिर् यशः सौख्यम् अनादिधर्मः सोमेश्वरं तं शरणं व्रजामि
नित्यं शरण्यः सकलस्य पूज्यो नित्यं प्रियो यः शरणागतस्य नित्यं शिवो यः सकलस्य रूपं सोमेश्वरं तं शरणं व्रजामि
ततः प्रसन्नो भगवान् आह नारद तं मुनिम् आत्मार्थं च परार्थं च आपस्तम्बो ऽब्रवीच् छिवम्
सर्वान् कामान् आप्नुयुस् ते ये स्नात्वा देवम् ईश्वरम् पश्येयुर् जगताम् ईशम् अस्त्व् इत्य् आह शिवो मुनिम्
ततः प्रभृति तत् तीर्थम् आपस्तम्बम् उदाहृतम् अनाद्य् अविद्यातिमिरव्रातनिर्मूलनक्षमम्
यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् अशेषपापशमनं तत्र वृत्तम् इदं शृणु
तत्राख्यानम् इदं त्व् आसीद् इतिहासं पुरातनम् सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने
तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ
गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् रक्षन्तीम् अनुजग्मुस् ते राक्षसा दैत्यदानवाः
रक्षन्तीं तां महाप्राज्ञाः श्वानयोर् मातरं शुनीम् प्रलोभयित्वा विविधैर् वाक्यैर् दानैश् च यत्नतः
हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः तत आगत्य सा देवान् इदम् आह क्रमाच् छुनी
मां बद्ध्वा राक्षसैः पाशैस् ताडयित्वा प्रहारकैः नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः
तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः
इयं विकृतरूपास्ते अस्याः पापं च लक्षये अस्या मतेन ता गावो नीता नान्येन हेतुना पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः
तद् गुरोर् वचनाच् छक्रः पदा तां प्राहरच् छुनीम् पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे
पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि राक्षसैश् च तदा दत्तं तस्मान् नीतास् तु गा मम
नापराधो ऽस्ति मे नाथ न चान्यस्यापि कस्यचित् नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर तस्माद् रुष्टो ऽसि किं नाथ रिपवो बलिनस् तु ते
ततो ध्यात्वा देवगुरुर् ज्ञात्वा तस्या विचेष्टितम् सत्यं शक्र त्व् इयं दुष्टा रिपूणां पक्षकारिणी