प्रसादयाम् आस पतिं पुत्रो मे नेदृशो भवेत् ब्राह्मणापसदस् त्वत्त इत्य् उक्तो मुनिर् अब्रवीत्
नैष संकल्पितः कामो मया भद्रे तथास्त्व् इति उग्रकर्मा भवेत् पुत्रः पितुर् मातुश् च कारणात्
पुनः सत्यवती वाक्यम् एवम् उक्त्वाब्रवीद् इदम् इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनः सुतम्
शमात्मकम् ऋजुं त्वं मे पुत्रं दातुम् इहार्हसि कामम् एवंविधः पौत्रो मम स्यात् तव च प्रभो
यद्य् अन्यथा न शक्यं वै कर्तुम् एतद् द्विजोत्तम ततः प्रसादम् अकरोत् स तस्यास् तपसो बलात्
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि त्वया यथोक्तं वचनं तथा भद्रे भविष्यति
ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् तपस्य् अभिरतं दान्तं जमदग्निं समात्मकम्
भृगोर् जगत्यां वंशे ऽस्मिञ् जमदग्निर् अजायत सा हि सत्यवती पुण्या सत्यधर्मपरायणा
कौशिकीति समाख्याता प्रवृत्तेयं महानदी इक्ष्वाकुवंशप्रभवो रेणुर् नाम नराधिपः
तस्य कन्या महाभागा कामली नाम रेणुका रेणुकायां तु कामल्यां तपोविद्यासमन्वितः
आर्चीको जनयाम् आस जामदग्न्यं सुदारुणम् सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः
जमदग्निस् तपोवीर्याज् जज्ञे ब्रह्मविदां वरः मध्यमश् च शुनःशेफः शुनःपुच्छः कनिष्ठकः
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः जनयाम् आस पुत्रं तु तपोविद्याशमात्मकम्
प्राप्य ब्रह्मर्षिसमतां यो ऽयं ब्रह्मर्षितां गतः विश्वामित्रस् तु धर्मात्मा नाम्ना विश्वरथः स्मृतः
जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः विश्वामित्रस्य च सुता देवरातादयः स्मृताः
प्रख्यातास् त्रिषु लोकेषु तेषां नामान्य् अतःपरम् देवरातः कतिश् चैव यस्मात् कात्यायनाः स्मृताः
शालावत्यां हिरण्याक्षो रेणुर् जज्ञे ऽथ रेणुकः सांकृतिर् गालवश् चैव मुद्गलश् चैव विश्रुतः
मधुच्छन्दो जयश् चैव देवलश् च तथाष्टकः कच्छपो हारितश् चैव विश्वामित्रस्य ते सुताः
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् पाणिनो बभ्रवश् चैव ध्यानजप्यास् तथैव च
पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः लोहिता यमदूताश् च तथा कारूषकाः स्मृताः
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च संबन्धो ऽप्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः
विश्वामित्रात्मजानां तु शुनःशेफो ऽग्रजः स्मृतः भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः
विश्वामित्रस्य पुत्रस् तु शुनःशेफो ऽभवत् किल हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः
देवैर् दत्तः शुनःशेफो विश्वामित्राय वै पुनः देवैर् दत्तः स वै यस्माद् देवरातस् ततो ऽभवत्
देवरातादयः सप्त विश्वामित्रस्य वै सुताः दृषद्वतीसुतश् चापि वैश्वामित्रस् तथाष्टकः
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः
आयोः पुत्राश् च ते पञ्च सर्वे वीरा महारथाः स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् रम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः
रजिः पुत्रशतानीह जनयाम् आस पञ्च वै राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम्