त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ
तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितम् आप्तवान् मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम्
तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ
इन्द्रेश्वरे चाब्जके च उभयोस् तीरयोः सुराः एकत्र शंकरो देवो ह्य् अपरत्र जनार्दनः
पावयन् दण्डकारण्यं साक्षाद् विष्णुस् त्रिविक्रमः अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च
अत्र तु स्नानमात्रेण सर्वे ते मुक्तिम् आप्नुयुः पापिष्ठाः पापतो मुक्तिम् आप्नुयुर् ये च धर्मिणः
तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः अत्र किंचिच् च ये दद्युर् अर्थिभ्यस् तिलमात्रकम्
दातृभ्यो ह्य् अक्षयं तत् स्यात् कामदं मोक्षदं तथा धन्यं यशस्यम् आयुष्यम् आरोग्यं पुण्यवर्धनम्
आख्यानं विष्णुशंभ्वोश् च ज्ञात्वा स्नानाच् च मुक्तिदम् अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च
पुण्यभाजो भवेयुस् ते तेभ्यो ऽत्रैव स्मृतिर् भवेत् शिवविष्ण्वोर् अशेषाघसंघविच्छेदकारिणी यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः
भविष्यत्य् एवम् एवेति तं देवा ऋषयो ऽब्रुवन् गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम्
देवर्षिसिद्धसेव्यानां सहस्राण्य् अथ सप्त वै तथैव दक्षिणे तीरे तीर्थान्य् एकादशैव तु
अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः विश्रामस्थानम् ईशस्य विष्णोर् ब्रह्मण एव च
आपस्तम्बम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् स्मरणाद् अप्य् अशेषाघसंघविध्वंसनक्षमम्
आपस्तम्बो महाप्राज्ञो मुनिर् आसीन् महायशाः तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा
तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् तस्याश्रमम् अनुप्राप्तो ह्य् अगस्त्यो मुनिसत्तमः
तम् अगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः शिष्यैर् अनुगतो धीमांस् तं प्रष्टुम् उपचक्रमे
त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम भुक्तिर् मुक्तिश् च कस्माद् वा स्याद् अनादिश् च को भवेत्
अनन्तश् चापि को विप्र देवानाम् अपि दैवतम् यज्ञैः क इज्यते देवः को वेदेष्व् अनुगीयते एतं मे संशयं छेत्तुं वदागस्त्य महामुने
धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः
वेदेन गीयते यस् तु पुरुषः स परात् परः मृतो ऽपरः स विज्ञेयो ह्य् अमृतः पर उच्यते
यो ऽमूर्तः स परो ज्ञेयो ह्य् अपरो मूर्त उच्यते गुणाभिव्याप्तिभेदेन मूर्तो ऽसौ त्रिविधो भवेत्
ब्रह्मा विष्णुः शिवश् चेति एक एव त्रिधोच्यते त्रयाणाम् अपि देवानां वेद्यम् एकं परं हि तत्
एकस्य बहुधा व्याप्तिर् गुणकर्मविभेदतः लोकानाम् उपकारार्थम् आकृतित्रितयं भवेत्
यस् तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः तत्र यो भेदम् आचष्टे लिङ्गभेदी स उच्यते
प्रायश्चित्तं न तस्यास्ति यश् चैषां व्याहरेद् भिदम् त्रयाणाम् अपि देवानां मूर्तिभेदः पृथक् पृथक्
वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् निराकारं च यत् त्व् एकं तत् तेभ्यः परमं मतम्
नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् तत्राप्य् अत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् निःसंशयं निर्विकल्पं भाजनं सर्वसंपदाम्
एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यम् अब्रवीत्
यद्यप्य् एषां न भेदो ऽस्ति देवानां तु परस्परम् तथापि सर्वसिद्धिः स्याच् छिवाद् एव सुखात्मनः