फेनायाश् चैव गङ्गायास् तत्र देवं जनार्दनम् वैदिकैर् विविधैर् मन्त्रैस् तपसातोषयत् तदा
ततस् तुष्टो ऽभवद् विष्णुः किं देयं चेत्य् अभाषत देहि मे शत्रुहन्तारम् इत्य् आह भगवान् हरिः
दत्तम् इत्य् एव जानीहि तम् उवाच जनार्दनः तत्राभवच् छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः
अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् चक्रपाणिः शूलधरः स गत्वा तु रसातलम्
निजघान तदा दैत्यम् इन्द्रशत्रुं महाशनिम् सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः
दिविस्थो ऽपि सदा चेन्द्रस् तम् अन्वेति वृषाकपिम् कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् शचीं तां सान्त्वयन्न् आह शतमन्युर् हसन्न् इदम्
नाहम् इन्द्राणि शरणम् ऋते सख्युर् वृषाकपेः वारि वापि हविर् यस्य अग्नेः प्रियकरं सदा
नाहम् अन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि
पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी सापत्या च कुलीना च त्वत्तो ऽन्या का प्रिया मम
तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् प्रसादाद् देवदेवस्य विष्णोर् वै चक्रपाणिनः
तथा शिवस्य देवस्य प्रसादाच् च वृषाकपेः जलोद्भवाच् च मे मित्राद् अब्जकाल् लोकविश्रुतात्
उत्तीर्णदुःखः सुभगे इत इन्द्रो ऽहम् अच्युतः किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी
दुष्करा तत्र नो मुक्तिः किंत्व् अर्थादित्रयं शुभे जायैव परमं मित्रं लोकद्वयहितैषिणी
सा चेत् कुलीना प्रियभाषिणी च पतिव्रता रूपवती गुणाढ्या संपत्सु चापत्सु समानरूपा तया ह्य् असाध्यं किम् इह त्रिलोक्याम्
तस्मात् तव धिया कान्ते ममेदं शुभम् आगतम् इतस् तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे
परलोके च धर्मे च सत्पुत्रसदृशं न च आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि
निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये गङ्गया सदृशं नास्ति शृणु चान्यद् वरानने
धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये शिवविष्ण्वोर् अनन्यत्वज्ञानान् नास्त्य् अत्र मुक्तये
तस्मात् तव धिया साध्वि सर्वम् एतन् मनोगतम् अवाप्तं च शिवाद् विष्णोर् गङ्गायाश् च प्रसादतः
इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः वृषाकपिर् मम सखा यो जातस् त्व् अप्सु भामिनि
त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम तीर्थानां गौतमी गङ्गा देवानां हरिशंकरौ
तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितम् आप्तवान् मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम्
तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् अनुमन्यन्तु ऋषयो गङ्गा च हरिशंकरौ
इन्द्रेश्वरे चाब्जके च उभयोस् तीरयोः सुराः एकत्र शंकरो देवो ह्य् अपरत्र जनार्दनः
पावयन् दण्डकारण्यं साक्षाद् विष्णुस् त्रिविक्रमः अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च
अत्र तु स्नानमात्रेण सर्वे ते मुक्तिम् आप्नुयुः पापिष्ठाः पापतो मुक्तिम् आप्नुयुर् ये च धर्मिणः
तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः अत्र किंचिच् च ये दद्युर् अर्थिभ्यस् तिलमात्रकम्
दातृभ्यो ह्य् अक्षयं तत् स्यात् कामदं मोक्षदं तथा धन्यं यशस्यम् आयुष्यम् आरोग्यं पुण्यवर्धनम्
आख्यानं विष्णुशंभ्वोश् च ज्ञात्वा स्नानाच् च मुक्तिदम् अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च
पुण्यभाजो भवेयुस् ते तेभ्यो ऽत्रैव स्मृतिर् भवेत् शिवविष्ण्वोर् अशेषाघसंघविच्छेदकारिणी यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः