वाक्सायकैस् तथा विद्धस् तद्वधाय त्व् इयं कृतिः तदर्थं जगताम् ईश येन जेष्ये रिपुं प्रभो
तद् एव देहि वीर्यं मे यच् चान्यद् रिपुनाशनम् जातः पराभवो यस्मात् तद्विनाशे कृते सति पुनर्जातम् अहं मन्ये वरं कीर्तिर् जयश्रियोः
स शिवः शक्रम् आहेदं न मयैकेन ते रिपुः वधम् आप्नोति तस्मात् त्वं विष्णुम् अप्य् अव्ययं हरिम्
आराधयस्व पौलोम्या सह देवं जनार्दनम् लोकत्रयैकशरणं नारायणम् अनन्यधीः
ततः प्राप्स्यसि तस्माच् च मत्तश् चापि प्रियं हरे पुनश् चोवाच भगवान् आदिकर्ता महेश्वरः
मन्त्राभ्यासस् तपो वापि योगाभ्यसनम् एव च संगमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः
किं पुनः संगमे विप्र गौतमीसिन्धुफेनयोः गिरीणां गह्वरे यद् वा सरिताम् अथ संगमे
विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः
आस्ते तस्याप्य् अहं तोषम् अगमं बलसूदन तेन त्वं भार्यया चैव तोषयस्व गदाधरम्
आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे तुष्टाव देवं प्रयतः स्नात्वा पुण्ये ऽथ संगमे
फेनायाश् चैव गङ्गायास् तत्र देवं जनार्दनम् वैदिकैर् विविधैर् मन्त्रैस् तपसातोषयत् तदा
ततस् तुष्टो ऽभवद् विष्णुः किं देयं चेत्य् अभाषत देहि मे शत्रुहन्तारम् इत्य् आह भगवान् हरिः
दत्तम् इत्य् एव जानीहि तम् उवाच जनार्दनः तत्राभवच् छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः
अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् चक्रपाणिः शूलधरः स गत्वा तु रसातलम्
निजघान तदा दैत्यम् इन्द्रशत्रुं महाशनिम् सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः
दिविस्थो ऽपि सदा चेन्द्रस् तम् अन्वेति वृषाकपिम् कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् शचीं तां सान्त्वयन्न् आह शतमन्युर् हसन्न् इदम्
नाहम् इन्द्राणि शरणम् ऋते सख्युर् वृषाकपेः वारि वापि हविर् यस्य अग्नेः प्रियकरं सदा
नाहम् अन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि
पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी सापत्या च कुलीना च त्वत्तो ऽन्या का प्रिया मम
तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् प्रसादाद् देवदेवस्य विष्णोर् वै चक्रपाणिनः
तथा शिवस्य देवस्य प्रसादाच् च वृषाकपेः जलोद्भवाच् च मे मित्राद् अब्जकाल् लोकविश्रुतात्
उत्तीर्णदुःखः सुभगे इत इन्द्रो ऽहम् अच्युतः किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी
दुष्करा तत्र नो मुक्तिः किंत्व् अर्थादित्रयं शुभे जायैव परमं मित्रं लोकद्वयहितैषिणी
सा चेत् कुलीना प्रियभाषिणी च पतिव्रता रूपवती गुणाढ्या संपत्सु चापत्सु समानरूपा तया ह्य् असाध्यं किम् इह त्रिलोक्याम्
तस्मात् तव धिया कान्ते ममेदं शुभम् आगतम् इतस् तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे
परलोके च धर्मे च सत्पुत्रसदृशं न च आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि
निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये गङ्गया सदृशं नास्ति शृणु चान्यद् वरानने
धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये शिवविष्ण्वोर् अनन्यत्वज्ञानान् नास्त्य् अत्र मुक्तये
तस्मात् तव धिया साध्वि सर्वम् एतन् मनोगतम् अवाप्तं च शिवाद् विष्णोर् गङ्गायाश् च प्रसादतः
इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः वृषाकपिर् मम सखा यो जातस् त्व् अप्सु भामिनि