पृथिव्यां सारभूतं स्यात् तन्मध्ये दण्डकं वनम् तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो
विष्णुं वा जगताम् ईशं दीनार्तार्तिहरं विभुम् अनाथानाम् इह नृणां मज्जतां दुःखसागरे
हरो हरिर् वा गङ्गा वा क्वाप्य् अन्यच् छरणं नहि तस्मात् सर्वप्रयत्नेन तोषयैतान् समाहितः
भक्त्या स्तोत्रैश् च तपसा कुरु चैव मया सह ततः प्राप्स्यसि कल्याणम् ईशविष्णुप्रसादजम्
अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः ज्ञात्वा शतगुणं तत् स्याद् भार्यया च तद् अक्षयम्
पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी स्वल्पानाम् अपि कार्याणां नहि सिद्धिस् तया विना
एकेन यत् कृतं कर्म तस्माद् अर्धफलं भवेत् जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत्
तस्माद् एतत् सुविदितम् अर्धो जाया इति श्रुतेः श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी
अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी तस्माद् गच्छ मया तत्र कुरु पुण्यं महाफलम्
ततः शत्रून् निहत्याजौ महत् सुखम् अवाप्स्यसि
तथेत्य् उक्त्वा स गुरुणा भार्यया च शतक्रतुः ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम्
दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान् हरिः तपः कर्तुं मनश् चक्रे देवदेवाय शंभवे
गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः शिवैकशरणो भूत्वा स्तोत्रं चेदं ततो ऽब्रवीत्
स्वमायया यो ह्य् अखिलं चराचरं सृजत्य् अवत्य् अत्ति न सज्जते ऽस्मिन् एकः स्वतन्त्रो ऽद्वयचित् सुखात्मकः स नः प्रसन्नो ऽस्तु पिनाकपाणिः
न यस्य तत्त्वं सनकादयो ऽपि जानन्ति वेदान्तरहस्यविज्ञाः स पार्वतीशः सकलाभिलाष दाता प्रसन्नो ऽस्तु ममान्धकारिः
सृष्ट्वा स्वयंभूर् भगवान् विरिञ्चिं भयंकरं चास्य शिरो ऽन्वपश्यत् छित्त्वा नखाग्रैर् नखसक्तम् एतच् चिक्षेप तस्माद् अभवत् त्रिवर्गः
पापं दरिद्रं त्व् अथ लोभयाच्ञे मोहो विपच् चेति ततो ऽप्य् अनन्तम् जातप्रभावं भवदुःखरूपं बभूव तैर् व्याप्तम् इदं समस्तम्
अवेक्ष्य सर्वं चकितः सुरेशो देवीम् अवोचज् जगद् अस्तम् एति त्वं पाहि लोकेश्वरि लोकमातर् उमे शरण्ये सुभगे सुभद्रे
जगत्प्रतिष्ठे वरदे जय त्वं भुक्तिः समाधिः परमा च मुक्तिः स्वाहा स्वधा स्वस्तिर् अनादिसिद्धिर् गीर् बुद्धिर् आसीर् अजरामरे त्वम्
विद्यादिरूपेण जगत्त्रये त्वं रक्षां करोष्य् एव मदाज्ञया च त्वयैव सृष्टं भुवनत्रयं स्याद् यतः प्रकृत्यैव तथैव चित्रम्
इत्य् एवम् उक्ता दयिता हरेण संश्लेषसंलापपरा बभूव श्रान्ता भवस्यार्धतनौ सुलग्ना चिक्षेप च स्वेदजलं कराग्रैः
तस्माद् बभूव प्रथमं स धर्मो लक्ष्मीर् अथो दानम् अथो सुवृष्टिः सत्त्वं सुसंपन्नधरं सरांसि धान्यानि पुष्पाणि फलानि चैव
सौभाग्यवस्तूनि वपुः सुवेषः शृङ्गारभाजीनि महौषधानि नृत्यानि गीतान्य् अमृतं पुराणं श्रुतिस्मृती नीतिर् अथान्नपाने
शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् अस्त्राणि तीर्थानि च काननानि इष्टानि पूर्तानि च मङ्गलानि यानानि शुभ्राभरणासनानि
भवाङ्गसंसर्गसुसंप्रहास सुस्वेदसंलापरहःप्रकारैः तथैव जातं सचराचरं च अपापकं देवि ततश् च जातम्
सुखं प्रभूतं च शुभं च नित्यं विराजि चैतत् तव देवि भावात् तस्मात् तु मां रक्ष जगज्जनित्रि भीतं भयेभ्यो जगतां प्रधाने
एके तर्कैर् विमुह्यन्ति लीयन्ते तत्र चापरे शिवशक्त्योस् तदाद्वैतं सुन्दरं नौमि विग्रहम्
एवं तु स्तुवतस् तस्य पुरस्ताद् अभवच् छिवः
किम् अभीष्टं वरयसे हरे वद परायणम्
बलवान् मे रिपुश् चासीद् दर्शनैश् च शनिर् यथा तेन बद्धस् तलं नीतः परिभूतस् त्व् अनेकधा