सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् अतिसंमानितस् तेन जामात्रा वरुणः प्रभुः
पप्रच्छागमनं दैत्यो विनयाच् छ्वशुरं तदा वरुणः प्राह तं दैत्यं यद् आगमनकारणम्
इन्द्रं देहि महाबाहो यस् त्वया निर्जितः पुरा बद्धं रसातलस्थं तं देवानाम् अधिपं सखे
अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् बद्ध्वा विमोक्षणं शत्रोर् महते यशसे सताम्
तथेत्य् उक्त्वा कथंचित् स दैत्येशो वरुणाय तम् प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम्
स दैत्यमध्ये ऽतिविराजमानो हरिं तदोवाच जलेशसंनिधौ संपूज्य चैवाथ महोपचारैर् महाशनिर् मघवन्तं बभाषे
केन त्वम् इन्द्रो ऽद्य कृतो ऽसि केन वीर्यं तवेदृग् बहु भाषसे च त्वं संगरे शत्रुभिर् बाध्यसे च तथापि चेन्द्रो भवसीति चित्रम्
अथापि बद्धा पुरुषेण काचित् तस्याः पतिस् तां मोचयतीति युक्तम् स्त्रियो ऽस्वतन्त्राः पुरुषप्रधानास् त्वं वै पुमान् भविता शक्र साधो
बद्धो मया संगरे वाहनेन क्वाप्य् अस्त्रं ते वज्रम् उद्दामशक्ति चिन्तारत्नं नन्दनं योषितस् ता यशो बलं देवराजोपभोग्यम्
तज् जीवनं यत् तु यशोनिधानं स एव मृत्युर् यशसो यद् विरोधि एवं जानञ् शक्र कथं जलेशान् मुक्तिं प्राप्तो नैव लज्जां भजेथाः
त्रिविष्टपस्थः परिवेष्टितः सन् सर्वैः सुरैः कान्तया वीज्यमानः संस्तूयमानश् च तथाप्सरोभिर् नूनं लज्जा ते बिभेतीति मन्ये
त्वं वृत्रहा नमुचेश् चापि हन्ता पुरां भेत्ता गोत्रभिद् वज्रबाहुः एवं सुरास् त्वां परिपूजयन्तीत्य् अतो जिष्णो सर्वम् एतत् त्यजस्व
विकारम् आप्याप्य् अहितोद्भवं ये जीवन्ति लोकान् अनुसंविशन्ति भवादृशां दुश्च्यवनाब्जजन्मा कथं न हृद्भेदम् अवाप कर्ता
एवम् उक्त्वा तु दैत्येशो वरुणाय महात्मने प्रादाद् इन्द्रं पुनश् चेदं वचनं तद् अभाषत
अद्य प्रभृत्य् असौ शिष्य इन्द्रः स्याद् वरुणो गुरुः श्वशुरो मम येन त्वं मुक्तिम् आप्तो ऽसि वासव
तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति नो चेद् बद्ध्वा पुनस् त्वां वै क्षेप्स्ये चैव रसातलम्
एवं निर्भर्त्स्य तं शक्रं हसंश् चापि पुनः पुनः अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु
स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः पौलोम्यां प्राह तत् सर्वं यत् तच् छत्रुपराभवम्
एवम् उक्तः कृतश् चैव शत्रुणाहं वरानने निर्वापयामि येन स्वम् आत्मानं सुभगे वद
दानवानाम् अथोद्भूतिं शक्र मायां पराभवम् वरदानं तथा मृत्युं जाने ऽहं बलसूदन
तस्माद् यस्मात् तस्य मृत्युर् अथवापि पराभवः जायेत शृणु तत् सर्वं वक्ष्ये ऽहं प्रीतये तव
हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली तस्मान् मम स्यात् स भ्राता वरदानाच् च दर्पितः
ब्रह्माणं तोषयाम् आस तपसा नियमेन च ईदृशं बलम् आपन्नं तपसा किं न सिध्यति
तस्मात् त्वया चित्तरागो विस्मयो वा कथंचन न कार्यः शृणु तत्रेदं कार्यं यत् तु क्रमागतम्
एवम् उक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता
नासाध्यम् अस्ति तपसो नासाध्यं यज्ञकर्मणः नासाध्यं लोकनाथस्य विष्णोर् भक्त्या हरस्य च
पुनश् चेदं मया कान्त श्रुतम् अस्त्य् अतिशोभनम् स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप
तस्माद् भूमेस् तथा चापां नासाध्यं विद्यते प्रभो तपो वा यज्ञकर्मादि ताभ्याम् एव यतो भवेत्
तत्रापि तीर्थभूता तु या भूमिस् तां व्रजेद् भवान् तत्र विष्णुं शिवं पूज्य सर्वान् कामान् अवाप्स्यसि
श्रुतम् अस्ति पुनश् चेदं स्त्रियो याश् च पतिव्रताः ता एव सर्वं जानन्ति धृतं ताभिश् चराचरम्