बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत्
महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः शचीकान्तं तले स्थाप्य तस्य रक्षाम् अथाकरोत्
महाशनिर् हरिं जित्वा जेतुं वरुणम् अभ्यगात् वरुणो ऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः
उदधिं स्वालयं प्रादाद् वरुणस् तु महाशनेः तयोश् च सख्यम् अभवद् वरुणस्य महाशनेः
वारुणी चापि या कन्या सा प्रियाभून् महाशनेः वीर्येण यशसा चापि शौर्येण च बलेन च
महाशनिर् महादैत्यस् त्रैलोक्ये नोपमीयते निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन्
विष्णुर् एवेन्द्रदाता स्याद् दैत्यहन्ता स एव च मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति
एवं संमन्त्र्य ते देवा विष्णोर् मन्त्रं न्यवेदयन् ममावध्यो महादैत्यो महाशनिर् इति ब्रुवन्
प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम्
तथा त्वयैतत् कर्तव्यं यथायाति पुरंदरः तद्विष्णुवचनाच् छीघ्रं ययौ जलपतिर् मुने
सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् अतिसंमानितस् तेन जामात्रा वरुणः प्रभुः
पप्रच्छागमनं दैत्यो विनयाच् छ्वशुरं तदा वरुणः प्राह तं दैत्यं यद् आगमनकारणम्
इन्द्रं देहि महाबाहो यस् त्वया निर्जितः पुरा बद्धं रसातलस्थं तं देवानाम् अधिपं सखे
अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् बद्ध्वा विमोक्षणं शत्रोर् महते यशसे सताम्
तथेत्य् उक्त्वा कथंचित् स दैत्येशो वरुणाय तम् प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम्
स दैत्यमध्ये ऽतिविराजमानो हरिं तदोवाच जलेशसंनिधौ संपूज्य चैवाथ महोपचारैर् महाशनिर् मघवन्तं बभाषे
केन त्वम् इन्द्रो ऽद्य कृतो ऽसि केन वीर्यं तवेदृग् बहु भाषसे च त्वं संगरे शत्रुभिर् बाध्यसे च तथापि चेन्द्रो भवसीति चित्रम्
अथापि बद्धा पुरुषेण काचित् तस्याः पतिस् तां मोचयतीति युक्तम् स्त्रियो ऽस्वतन्त्राः पुरुषप्रधानास् त्वं वै पुमान् भविता शक्र साधो
बद्धो मया संगरे वाहनेन क्वाप्य् अस्त्रं ते वज्रम् उद्दामशक्ति चिन्तारत्नं नन्दनं योषितस् ता यशो बलं देवराजोपभोग्यम्
तज् जीवनं यत् तु यशोनिधानं स एव मृत्युर् यशसो यद् विरोधि एवं जानञ् शक्र कथं जलेशान् मुक्तिं प्राप्तो नैव लज्जां भजेथाः
त्रिविष्टपस्थः परिवेष्टितः सन् सर्वैः सुरैः कान्तया वीज्यमानः संस्तूयमानश् च तथाप्सरोभिर् नूनं लज्जा ते बिभेतीति मन्ये
त्वं वृत्रहा नमुचेश् चापि हन्ता पुरां भेत्ता गोत्रभिद् वज्रबाहुः एवं सुरास् त्वां परिपूजयन्तीत्य् अतो जिष्णो सर्वम् एतत् त्यजस्व
विकारम् आप्याप्य् अहितोद्भवं ये जीवन्ति लोकान् अनुसंविशन्ति भवादृशां दुश्च्यवनाब्जजन्मा कथं न हृद्भेदम् अवाप कर्ता
एवम् उक्त्वा तु दैत्येशो वरुणाय महात्मने प्रादाद् इन्द्रं पुनश् चेदं वचनं तद् अभाषत
अद्य प्रभृत्य् असौ शिष्य इन्द्रः स्याद् वरुणो गुरुः श्वशुरो मम येन त्वं मुक्तिम् आप्तो ऽसि वासव
तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति नो चेद् बद्ध्वा पुनस् त्वां वै क्षेप्स्ये चैव रसातलम्
एवं निर्भर्त्स्य तं शक्रं हसंश् चापि पुनः पुनः अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु
स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः पौलोम्यां प्राह तत् सर्वं यत् तच् छत्रुपराभवम्
एवम् उक्तः कृतश् चैव शत्रुणाहं वरानने निर्वापयामि येन स्वम् आत्मानं सुभगे वद
दानवानाम् अथोद्भूतिं शक्र मायां पराभवम् वरदानं तथा मृत्युं जाने ऽहं बलसूदन