तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै नामानि च पृथक् सन्ति संक्षेपात् तन् मयोच्यते
एतानि यश् च शृणुयाद् यश् च वा पठति स्मरेत् सर्वेषु तत्र काम्येषु परिपूर्णो भवेन् नरः
एतद् वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् लक्ष्मीवाञ् जायते नित्यं धर्मवांश् च विशेषतः
अब्जकात् पश्चिमे तीर्थं तच् छार्दूलम् उदाहृतम् वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्य् अधिकं भवेत्
तत्र स्नात्वा पितॄन् देवान् वन्दते तर्पयत्य् अपि सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
तपोवनाच् च शार्दूलान् मध्ये तीर्थान्य् अशेषतः तस्यैकैकस्य माहात्म्यं न केनाप्य् अत्र वर्ण्यते
इन्द्रतीर्थम् इति ख्यातं तत्रैव च वृषाकपम् फेनायाः संगमो यत्र हनूमतं तथैव च
अब्जकं चापि यत् प्रोक्तं यत्र देवस् त्रिविक्रमः तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम्
तत्र वृत्तान्य् अथाख्यास्ये गङ्गाया दक्षिणे तटे इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः
नमुचिर् बलवान् आसीद् इन्द्रशत्रुर् मदोत्कटः तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रो ऽहरच् छिरः
अपां च नमुचेः शत्रोस् तत्फेनवज्ररूपधृक् शिरश् छित्त्वा तच् च फेनं गङ्गाया दक्षिणे तटे
न्यपतद् भूमिं भित्त्वा तु रसातलम् अथाविशत् रसातलभवं गाङ्गं वारि यद् विश्वपावनम्
वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् तज् जलं फेननाम्ना तु नदी फेनेति गद्यते
तस्यास् तु संगमः पुण्यो गङ्गया लोकविश्रुतः सर्वपापक्षयकरो गङ्गायमुनयोर् इव
हनूमदुपमाता वै यत्राप्लवनमात्रतः मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः
मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम्
वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली
तपस् तप्त्वा सुरैः सर्वैर् अजेयो ऽभूत् सुदारुणः तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा
महाशनिर् इति ख्यातस् तस्य भार्या पराजिता तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम्
महाशनिर् महावीर्यः सततं रणमूर्धनि जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत्
बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत्
महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः शचीकान्तं तले स्थाप्य तस्य रक्षाम् अथाकरोत्
महाशनिर् हरिं जित्वा जेतुं वरुणम् अभ्यगात् वरुणो ऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः
उदधिं स्वालयं प्रादाद् वरुणस् तु महाशनेः तयोश् च सख्यम् अभवद् वरुणस्य महाशनेः
वारुणी चापि या कन्या सा प्रियाभून् महाशनेः वीर्येण यशसा चापि शौर्येण च बलेन च
महाशनिर् महादैत्यस् त्रैलोक्ये नोपमीयते निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन्
विष्णुर् एवेन्द्रदाता स्याद् दैत्यहन्ता स एव च मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति
एवं संमन्त्र्य ते देवा विष्णोर् मन्त्रं न्यवेदयन् ममावध्यो महादैत्यो महाशनिर् इति ब्रुवन्
प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम्
तथा त्वयैतत् कर्तव्यं यथायाति पुरंदरः तद्विष्णुवचनाच् छीघ्रं ययौ जलपतिर् मुने