व्यभिचारात् सदोषं च अपत्यम् अभवच् छिव शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो
तदग्निवचनाच् छंभुः प्रोवाचेदं शुभोदयम्
मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः समग्रा ऋद्धयः सर्वाः सुवर्णे ऽस्मिन् समाहिताः
भविष्यन्ति न संदेहो वह्ने शृणु वचो मम त्रयाणाम् अपि लोकानां पावनः स भविष्यति
स एव चामृतं लोके स एव सुरवल्लभः स एव भुक्तिमुक्ती च स एव मखदक्षिणा
स एव रूपं सर्वस्य गुरूणाम् अप्य् असौ गुरुः वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम्
विशेषतस् त्वयि क्षिप्तं तस्य का स्याद् विचारणा हीनं तेन विना सर्वं संपूर्णास् तेन संपदः
जीवन्तो ऽपि मृताः सर्वे सुवर्णेन विना नराः निर्गुणो ऽपि धनी मान्यः सगुणो ऽप्य् अधनो नहि
तस्मान् नातः परं किंचित् सुवर्णाद् धि भविष्यति तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला
अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति तपसा जपहोमैश् च येयं प्राप्या जगत्त्रये
तस्याः प्रभावं प्राशस्त्यम् अग्ने किंचिच् च कीर्त्यते सर्वत्र या तु संतिष्ठेद् आयातु विचरिष्यति
सुवर्णा कमला साक्षात् पवित्रा च भविष्यति अद्य प्रभृत्य् आत्मजयोस् तथा स्वैरं विचेष्टतोः
तथापि चैतयोः पुण्यं न भूतं न भविष्यति
एवम् उक्त्वा ततः शंभुः साक्षात् तत्राभवच् छिवः लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया
वरान् प्राप्य सुताभ्यां स अग्निस् तुष्टो ऽभवत् ततः स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा
वर्तयाम् आस पुत्रो ऽपि वह्नेः संकल्पया मुदा एतस्मिन्न् अन्तरे स्वर्णाम् अग्नेर् दुहितरं मुने
परिभूय च धर्मं तं शार्दूलो दानवेश्वरः अहरद् भाग्यसौभाग्यविलासवसतिं छलात्
नीता रसातलं तेन सुवर्णा लोकविश्रुता जामाताग्नेः स धर्मश् च अग्निश् चैव स हव्यवाट्
विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे
ततश् चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी
महेश्वरसुता चैव अग्नेश् चैव तथा प्रिया महेश्वराय तां विष्णुर् दर्शयाम् आस नारद
प्रीतो ऽभवन् महेशो ऽपि सस्वजे तां पुनः पुनः चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत्
चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद् विदुः यत्र नीता सुवर्णा सा विष्णुना शंकरान्तिकम्
तत् तीर्थं शांकरं ज्ञेयं वैष्णवं सिद्धम् एव तु यत्रानन्दम् अनुप्राप्तो ह्य् अग्निर् धर्मश् च शाश्वतः
आनन्दाश्रूणि न्यपतन् यत्राग्नेर् मुनिसत्तम आनन्देति नदी जाता तथा वै नन्दिनीति च
तस्याश् च संगमः पुण्यो गङ्गायां तत्र वै शिवः तत्रैव संगमे साक्षात् सुवर्णाद्यापि संस्थिता
दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता अम्बिका जगदाधारा शिवा कात्यायनीश्वरी
भक्ताभीष्टप्रदा नित्यम् अलंकृत्योभयं तटम् तपस् तेपे यत्र चाग्निस् तत् तीर्थं तु तपोवनम्
एवमादीनि तीर्थानि तीरयोर् उभयोर् मुने तेषु स्नानं च दानं च सर्वकामप्रदं शुभम्
उत्तरे चैव पारे च सहस्राणि चतुर्दश दक्षिणे च तथा पारे सहस्राण्य् अथ षोडश