अन्योन्यरेतोव्यतिषङ्गदोषाद् अग्नेर् अपत्यम् उभयं तथैव पुत्रः सुवर्णो बहुरूपरूपी रूपाणि कृत्वा सुरसत्तमानाम्
इन्द्रस्य वायोर् धनदस्य भार्यां जलेश्वरस्यापि मुनीश्वराणाम् भार्यास् तु गच्छत्य् अनिशं सुवर्णो यस्याः प्रियं यच् च वपुः स कृत्वा
याति क्वचिच् चापि कवेस् तनूजस् तद्भर्तृरूपं च पतिव्रतासु कृत्वानिशं ताभिर् उदारभावः कुर्वन् कृतार्थं मदनं स रेमे
कृत्वा गता क्वापि चैवं सुवर्णा धर्मस्य भार्यापि सुवर्णनाम्नी स्वाहासुता स्वैरिणी सा बभूव यस्यापि यस्यापि मनोगता या
भार्यास्वरूपा सैव भूत्वा सुवर्णा रेमे पतीन् मानुषान् आसुरांश् च देवान् ऋषीन् पितृरूपांस् तथान्यान् रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान्
याभिप्रेता यस्य देवस्य भार्या तद्रूपा सा रमते तेन सार्धम् नानाभेदैः करणैश् चाप्य् अनेकैर् आकर्षन्ती तन्मनः कामसिद्धिम्
एवं सुवर्णस्य निरीक्ष्य चेष्टाम् अग्नेः सूनोः पुत्रिकायास् तथाग्नेः सर्वे च शेपुः कुपितास् तदाग्नेः पुत्रं च पुत्रीं च सुरासुरास् ते
कृतं यद् एतद् व्यभिचाररूपं यच् छद्मना वर्तनं पापरूपम् तस्मात् सुतस् ते व्यभिचारवांश् च सर्वत्र गामी जायतां हव्यवाह
तथा सुवर्णापि न चैकनिष्ठा भूयाद् अग्ने नैकतृप्ता बहूंश् च नानाजातीन् निन्दितान् देहभाजो भजित्री स्याद् एष दोषश् च पुत्र्याः
इत्य् एतच् छापवचनं श्रुत्वाग्निर् अतिभीतवत् माम् अभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः
तदाहम् अब्रवं वह्ने गौतमीं गच्छ शंकरम् स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः
माहेश्वरेण वीर्येण तव देहस्थितेन च एवंविधं त्व् अपत्यं ते जातं वह्ने ततो भवान्
निवेदयस्व देवाय देवानां शापम् ईदृशम् स्वापत्यरक्षणायासौ शंभुः श्रेयः करिष्यति
स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच् छिवः ततस् त्व् अपत्यविषये प्रियान् कामान् अवाप्स्यसि
ततो मद्वचनाद् अग्निर् गङ्गां गत्वा महेश्वरम् तुष्टाव नियतो वाक्यैः स्तुतिभिर् वेदसंमितैः
विश्वस्य जगतो धाता विश्वमूर्तिर् निरञ्जनः आदिकर्ता स्वयंभूश् च तं नमामि जगत्पतिम्
यो ऽग्निर् भूत्वा संहरति स्रष्टा वै जलरूपतः सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम्
ततः प्रसन्नो भगवान् अनन्तः शंभुर् अव्ययः वरेण च्छन्दयाम् आस पावकं सुरपूजितम्
स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः
तथा सुवर्णा पुत्री च तस्माद् एव जगत्प्रभो अन्योन्यवीर्यसङ्गाच् च तद्दोषाद् उभयं त्व् इदम्
व्यभिचारात् सदोषं च अपत्यम् अभवच् छिव शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो
तदग्निवचनाच् छंभुः प्रोवाचेदं शुभोदयम्
मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः समग्रा ऋद्धयः सर्वाः सुवर्णे ऽस्मिन् समाहिताः
भविष्यन्ति न संदेहो वह्ने शृणु वचो मम त्रयाणाम् अपि लोकानां पावनः स भविष्यति
स एव चामृतं लोके स एव सुरवल्लभः स एव भुक्तिमुक्ती च स एव मखदक्षिणा
स एव रूपं सर्वस्य गुरूणाम् अप्य् असौ गुरुः वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम्
विशेषतस् त्वयि क्षिप्तं तस्य का स्याद् विचारणा हीनं तेन विना सर्वं संपूर्णास् तेन संपदः
जीवन्तो ऽपि मृताः सर्वे सुवर्णेन विना नराः निर्गुणो ऽपि धनी मान्यः सगुणो ऽप्य् अधनो नहि
तस्मान् नातः परं किंचित् सुवर्णाद् धि भविष्यति तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला
अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति तपसा जपहोमैश् च येयं प्राप्या जगत्त्रये