अश्वमेधे निवृत्ते तु सुरास् तेभ्यो वरान् ददुः स्नात्वा कृतार्था गङ्गायां ततस् ते दिवम् आक्रमन्
ततः प्रभृति तत्रासंस् तीर्थानि दश पञ्च च सहस्राणि शतान्य् अष्टाव् उभयोर् अपि तीरयोः तेषु स्नानं च दानं च ह्य् अतीव फलदं विदुः
तपोवनम् इति ख्यातं नन्दिनीसंगमं तथा सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे
शार्दूलं चेति विख्यातं तेषां वृत्तम् इदं शृणु यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते
अग्निर् होता पुरा त्व् आसीद् देवानां हव्यवाहनः भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम्
सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् तपश् चरन्तीं विपुलं तोषयन्तीं हुताशनम् स भर्ता हुतभुक् प्राह भार्यां स्वाहाम् अनिन्दिताम्
अपत्यानि भविष्यन्ति मा तपः कुरु शोभने
एतच् छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसो ऽभवत् स्त्रीणाम् अभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित्
ततः कतिपये काले तारकाद् भय आगते अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते
महेश्वरे भवान्या च त्रस्ता देवाः समागताः देवानां कार्यसिद्ध्यर्थम् अग्निं प्रोचुर् दिवौकसः
देव गच्छ महाभाग शंभुं त्रैलोक्यपूजितम् तारकाद् भयम् उत्पन्नं शंभवे त्वं निवेदय
न गन्तव्यं तत्र देशे दंपत्योः स्थितयो रहः सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि
एकान्तस्थितयोः स्वैरं जल्पतोर् यः सरागयोः दंपत्योः शृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः
स स्वाम्य् अखिललोकानां महाकालस् त्रिशूलवान् निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः
महाभये चानुगते न्यायः को ऽन्व् अत्र वर्ण्यते तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान्
महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् रूपेणान्येन वा गच्छ वाचं वद यथा तथा
विश्राव्य देववचनं शंभुम् आगच्छ सत्वरः ततो दास्यामहे पूजाम् उभयोर् लोकयोः कवे
शुको भूत्वा जगामाशु देववाक्याद् धुताशनः यत्रासीज् जगतां नाथो रममाणस् तदोमया
स भीतवद् अथ प्रायाच् छुको भूत्वा तदानलः नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः
ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः तं दृष्ट्वा प्रहसञ् शंभुर् उमां प्राह रहोगतः
पश्य देवि शुकं प्राप्तं देववाक्याद् धुताशनम्
लज्जिता चावदद् देवम् अलं देवेति पार्वती पुरश्चरन्तं देवेशो ह्य् अग्निं तं द्विजरूपिणम्
आहूय बहुशश् चापि ज्ञातो ऽस्य् अग्ने ऽत्र मा वद विदारयस्व स्वमुखं गृहाणेदं नयस्व तत्
इत्य् उक्त्वा तस्य चास्ये ऽग्ने रेतः स प्राक्षिपद् बहु रेतोगर्भस् तदा चाग्निर् गन्तुं नैव च शक्तवान्
सुरनद्यास् ततस् तीरं श्रान्तो ऽग्निर् उपतस्थिवान् कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिको ऽभवत्
अवशिष्टं च यत् किंचिद् अग्नेर् देहे च शांभवम् तद् एव रेतो वह्निस् तु स्वभार्यायां द्विधाक्षिपत्
स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः पुरा साश्वासिता तेन संततिस् ते भविष्यति
तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शांभवं महः तद् अग्ने रेतसस् तस्यां जज्ञे मिथुनम् उत्तमम्
सुवर्णश् च सुवर्णा च रूपेणाप्रतिमं भुवि अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम्
अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते सुवर्णस्याथ पुत्रस्य संकल्पाम् अकरोत् प्रियाम् एवं पुत्रस्य पुत्र्याश् च विवाहम् अकरोत् कविः