आहूता वैदिकैर् मन्त्रैर् ऋत्विग्भिश् च यथाक्रमम् भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम
तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः परतन्त्रास् ततो विप्र वेदेभ्यस् तन् निवेदय
स देवापिः शुचिर् भूत्वा वेदान् आहूय यत्नतः ध्यानेन तपसा युक्तो वेदाश् चापि पुरो ऽभवन्
वेदान् उवाच देवापिर् नमस्य तु पुनः पुनः ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत्
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः अशेषजगदाधारो निराधारो निरञ्जनः
सर्वशक्त्यैकसदनं निधानं सर्वसंपदाम् स तु कर्ता महादेवः संहर्ता स महेश्वरः
वयं शब्दमया ब्रह्मन् वदामो विद्म एव च अस्माकम् एतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि
केन नीतास् तस्य नाम तत्पुरं तद्बलं तथा भक्षिताः किं तु नो नष्टा एतज् जानीमहे वयम्
यथा च तव सामर्थ्यं यम् आराध्य च यत्र च स्याद् इत्य् एतच् च जानीमो यथा प्राप्स्यसि तान् पुरः
एतच् छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि
वेदा वदन्त्व् एतद् एव सर्वम् एव यथार्थतः सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमो ऽस्तु वः
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् सुप्रसन्नस् तवाभीष्टं दास्यत्य् एव कृपाकरः
भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते आर्ष्टिषेणश् च नृपतिस् तस्य जाया जया सती
पिता तवाप्य् उपमन्युस् तले तिष्ठन्त्य् अरोगिणः वरदानान् महेशस्य मिथुं हत्वा च राक्षसम् यशः प्राप्स्यसि धर्मं च एतच् छक्यं न चेतरत्
तद् वेदवचनाद् बालो देवापिर् गौतमीं गतः स्नात्वा कृतक्षणो विप्रस् तुष्टाव च महेश्वरम्
बालो ऽहं देवदेवेश गुरूणां त्वं गुरुर् मम न मे शक्तिस् त्वत्स्तवने तुभ्यं शंभो नमो ऽस्तु ते
न त्वां जानन्ति निगमा न देवा मुनयो न च न ब्रह्मा नापि वैकुण्ठो यो ऽसि सो ऽसि नमो ऽस्तु ते
ये ऽनाथा ये च कृपणा ये दरिद्राश् च रोगिणः पापात्मानो ये च लोके तांस् त्वं पासि महेश्वर
तपसा नियमैर् मन्त्रैः पूजितास् त्रिदिवौकसः त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते
याचितारश् च दातारस् तेभ्यो यद् यन् मनीषितम् भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः
ये ऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो
एवं तु स्तुवतस् तस्य पुरः प्राह त्रिलोचनः
वरं ब्रूह्य् अथ देवापे अलं दैन्येन बालक
राजानं राजपत्नीं च पितरं च गुरुं मम प्राप्तुम् इच्छे जगन्नाथ निधनं च रिपोर् मम
देवापिवचनं श्रुत्वा तथेत्य् आहाखिलेश्वरः देवापेः सर्वम् अभवद् आज्ञया शंकरस्य तत्
पुनर् अप्य् आह तं शंभुर् देवापिकरुणाकरः नन्दिनं प्रेषयाम् आस शंभुः शूलेन नारद
रसातलं मिथुं नन्दी हत्वा चासुरपुंगवान् तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत्
हयमेधश् च तत्रासीद् आर्ष्टिषेणस्य धीमतः अग्निश् च ऋत्विजो देवा वेदाश् च ऋषयो ऽब्रुवन्
यत्र साक्षाद् अभूच् छंभुर् देवापे भक्तवत्सलः देवदेवो जगन्नाथो देवतीर्थम् अभूच् च तत्
सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् पुण्यदं तीर्थम् एतत् स्यात् तव कीर्तिश् च शाश्वती