तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः धनुर्वेदे च वेदे च निष्णातो दक्ष एव च
तस्य भार्या रूपवती सुप्रभेत्य् अभिविश्रुता आर्ष्टिषेणस् ततो राजा पुत्रे राज्यं निवेश्य सः
पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः सरस्वत्यास् ततस् तीरे हयमेधाय यत्नवान्
ऋत्विग्भिर् ऋषिमुख्यैश् च वेदशास्त्रपरायणैः दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः
मिथुर् दानवराट् शूरः पापबुद्धिः प्रतापवान् मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम्
आदाय वेगात् स प्रागाद् रसातलतलं मुने नीते तस्मिन् नृपवरे यज्ञे नष्टे ततो ऽमराः
ऋत्विजश् च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः पुरोहितसुतो राज्ञो देवापिर् इति विश्रुतः
बालस् तां मातरं दृष्ट्वा आत्मनः पितरं न च दृष्ट्वा सविस्मयो भूत्वा दुःखितो ऽतीव चाभवत्
स मातरं तु पप्रच्छ पिता मे क्व गतो ऽम्बिके पितृहीनो न जीवेयं मातः सत्यं वदस्व मे
धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् न वक्षि यदि मे मातर् जलम् अग्निम् अथाविशे
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः दानवेन तलं नीतो राज्ञा सह पिता तव
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् राजानं तं मिथुर् दैत्यो नीतवान् स रसातलम् पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ
तन् मातृवचनं श्रुत्वा देवापिः कृत्यम् अस्मरत् देवान् पश्ये ऽथवाग्निं वा ऋत्विजो वासुरांस् तथा
एतेष्व् एव पितान्वेष्यो नान्यत्रेति मतिर् मम इति निश्चित्य देवापिर् भरं प्राह नृपात्मजम्
तपसा ब्रह्मचर्येण व्रतेन नियमेन च आनेतव्या मया सर्वे नीता ये च रसातलम्
जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् नराधमेन किं तेन जीवता वा मृतेन वा
त्वं प्रशाधि महीं कृत्स्नाम् आर्ष्टिषेणः पिता यथा माता मम त्वया पाल्या राजन् यावन् ममागतिः भवेच् च कृतकार्यस्य अनुजानीहि मां भर
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः
सिद्धिं कुरु सुखं याहि मा चिन्ताम् अल्पिकां भज
ततो देवापिर् अमरराजाङ्घ्रिध्यानतत्परः ऋत्विजो ऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् कृताञ्जलिपुटो बालो देवापिर् वाक्यम् अब्रवीत्
भवद्भिश् च मखो रक्ष्यो यजमानश् च दीक्षितः पुरोधाश् च तथा रक्ष्यः पत्नी या दीक्षितस्य तु
भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् राजादयस् तेन नीतास् तन् न युक्ततमं भवेत्
अथाप्य् एतद् अहं मन्ये भवन्तस् तान् अरोगिणः दातुम् अर्हन्ति तान् सर्वान् अन्यथा शापम् अर्हथ
मखे ऽग्निः प्रथमं पूज्यो ह्य् अग्निर् एवात्र दैवतम् तस्माद् वयं न जानीमो ह्य् अग्नीनां परिचारकाः
स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट्
ऋत्विजः पृष्ठतः कृत्वा देवापिर् जातवेदसम् पूजयित्वा यथान्यायम् अग्नये तन् न्यवेदयत्
यथर्त्विजस् तथा चाहं देवानां परिचारकः हव्यं वहामि देवानां भोक्तारो रक्षकाश् च ते
देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक् दास्ये ऽहम् एष दोषो मे तस्माद् याहि सुरान् प्रति
देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक् ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत्