अग्नेर् आपस् तथा योनिर् अद्भिः शौचम् अवाप्यते अग्नेश् च पूजका ये च विनाद्भिः पूजनं कथम्
अप्सु जातासु सर्वत्र कर्मण्य् अधिकृतो भवेत् तावत् कर्मण्य् अनर्हो ऽयम् अशुचिर् मलिनो नरः
न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित् तस्माद् आपो वरिष्ठाः स्युर् मातृभूता यतः स्मृताः तस्माज् ज्यैष्ठ्यम् अपाम् एव जनन्यो ऽग्नेर् विशेषतः
एतद् वचः शुश्रुवुस् ते ऋषयो वेदवादिनः निश्चयं च ततश् चक्रुर् भवेज् ज्यैष्ठ्यम् अपाम् इति
यत्र तीर्थे वृत्तम् इदम् ऋषिसत्त्रे च नारद तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते
अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः तेषु स्नानं च दानं च सर्वकामप्रदं शुभम्
चतुर्दश शतान्य् अत्र तीर्थानां पुण्यदायिनाम् तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम्
कृतं संदेहहरणम् ऋषीणां यत्र भाषया सरस्वत्य् अभवत् तत्र गङ्गया संगता नदी माहात्म्यं तस्य को वक्तुं संगमस्य क्षमो नरः
देवतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम्
आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः तस्य भार्या जया नाम साक्षाल् लक्ष्मीर् इवापरा
तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः धनुर्वेदे च वेदे च निष्णातो दक्ष एव च
तस्य भार्या रूपवती सुप्रभेत्य् अभिविश्रुता आर्ष्टिषेणस् ततो राजा पुत्रे राज्यं निवेश्य सः
पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः सरस्वत्यास् ततस् तीरे हयमेधाय यत्नवान्
ऋत्विग्भिर् ऋषिमुख्यैश् च वेदशास्त्रपरायणैः दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः
मिथुर् दानवराट् शूरः पापबुद्धिः प्रतापवान् मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम्
आदाय वेगात् स प्रागाद् रसातलतलं मुने नीते तस्मिन् नृपवरे यज्ञे नष्टे ततो ऽमराः
ऋत्विजश् च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः पुरोहितसुतो राज्ञो देवापिर् इति विश्रुतः
बालस् तां मातरं दृष्ट्वा आत्मनः पितरं न च दृष्ट्वा सविस्मयो भूत्वा दुःखितो ऽतीव चाभवत्
स मातरं तु पप्रच्छ पिता मे क्व गतो ऽम्बिके पितृहीनो न जीवेयं मातः सत्यं वदस्व मे
धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् न वक्षि यदि मे मातर् जलम् अग्निम् अथाविशे
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः दानवेन तलं नीतो राज्ञा सह पिता तव
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् राजानं तं मिथुर् दैत्यो नीतवान् स रसातलम् पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ
तन् मातृवचनं श्रुत्वा देवापिः कृत्यम् अस्मरत् देवान् पश्ये ऽथवाग्निं वा ऋत्विजो वासुरांस् तथा
एतेष्व् एव पितान्वेष्यो नान्यत्रेति मतिर् मम इति निश्चित्य देवापिर् भरं प्राह नृपात्मजम्
तपसा ब्रह्मचर्येण व्रतेन नियमेन च आनेतव्या मया सर्वे नीता ये च रसातलम्
जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् नराधमेन किं तेन जीवता वा मृतेन वा
त्वं प्रशाधि महीं कृत्स्नाम् आर्ष्टिषेणः पिता यथा माता मम त्वया पाल्या राजन् यावन् ममागतिः भवेच् च कृतकार्यस्य अनुजानीहि मां भर
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः
सिद्धिं कुरु सुखं याहि मा चिन्ताम् अल्पिकां भज