विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः दृढायुश् च वनायुश् च बह्वायुश् चोर्वशीसुताः
अमावसोस् तु दायादो भीमो राजाथ राजराट् श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः
विद्वांस् तु काञ्चनस्यापि सुहोत्रो ऽभून् महाबलः सुहोत्रस्याभवज् जह्नुः केशिन्या गर्भसंभवः
आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् पतिलोभेन यं गङ्गा पतित्वेन ससार ह
नेच्छतः प्लावयाम् आस तस्य गङ्गा तदा सदः स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
सौहोत्रिर् अशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः एष ते विफलं यत्नं पिबन्न् अम्भः करोम्य् अहम्
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः
उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम् युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत्
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम्
जह्नुस् तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः
अजकस्य तु दायादो बलाकाश्वो महीपतिः बभूव मृगयाशीलः कुशस् तस्यात्मजो ऽभवत्
कुशपुत्रा बभूवुर् हि चत्वारो देववर्चसः कुशिकः कुशनाभश् च कुशाम्बो मूर्तिमांस् तथा
बल्लवैः सह संवृद्धो राजा वनचरः सदा कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं प्रभुः
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् पूर्णे वर्षसहस्रे वै ततः शक्रो ह्य् अपश्यत
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः समर्थः पुत्रजनने स्वयम् एवास्य शाश्वतः
पुत्रार्थं कल्पयाम् आस देवेन्द्रः सुरसत्तमः स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम्
पौरा यस्याभवद् भार्या गाधिस् तस्याम् अजायत गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः
पुत्रार्थं साधयाम् आस चरुं गाधेस् तथैव च उवाचाहूय तां भार्याम् ऋचीको भार्गवस् तदा
उपयोज्यश् चरुर् अयं त्वया मात्रा स्वयं शुभे तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः
अजेयः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्
शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति एवम् उक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः
तपस्य् अभिरतो नित्यम् अरण्यं प्रविवेश ह गाधिः सदारस् तु तदा ऋचीकाश्रमम् अभ्यगात्
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा
चरुम् आदाय यत्नेन सा तु मात्रे न्यवेदयत् माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ
तस्याश् चरुम् अथाज्ञानाद् आत्मसंस्थं चकार ह अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा
धारयाम् आस दीप्तेन वपुषा घोरदर्शना ताम् ऋचीकस् ततो दृष्ट्वा योगेनाभ्युपसृत्य च
ततो ऽब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना
जनयिष्यति हि पुत्रस् ते क्रूरकर्मातिदारुणः भ्राता जनिष्यते चापि ब्रह्मभूतस् तपोधनः
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा