अपो ज्येष्ठतमाः केचिन् मेनिरे ऽग्निं तथापरे एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः
विनाग्निं जीवनं क्व स्याज् जीवभूतो यतो ऽनलः आत्मभूतो हव्यभूतश् चाग्निना जायते ऽखिलम्
अग्निना ध्रियते लोको ह्य् अग्निर् ज्योतिर्मयं जगत् तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत्
अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम्
तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् योषित्क्षेत्रे ऽर्पितं बीजं पुरुषेण यथा तथा
तस्य देहादिका शक्तिः कृशानोर् एव नान्यथा देवानां हि मुखं वह्निस् तस्मान् नातः परं विदुः
अपरे तु ह्य् अपां ज्यैष्ठ्यं मेनिरे वेदवादिनः अद्भिः संपत्स्यते ह्य् अन्नं शुचिर् अद्भिः प्रजायते
अद्भिर् एव धृतं सर्वम् आपो वै मातरः स्मृताः त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः
उत्पन्नम् अमृतं ह्य् अद्भ्यस् ताभ्यश् चौषधिसंभवः अग्निर् ज्येष्ठ इति प्राहुर् आपो ज्येष्ठतमाः परे
एवं मीमांसमानास् ते ऋषयो वेदवादिनः विरुद्धवादिनो मां च समभ्येत्येदम् अब्रुवन्
अग्नेर् अपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः
अहम् अप्य् अब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत्
उभाभ्यां जायते हव्यं कव्यं चामृतम् एव च उभाभ्यां जीवनं लोके शरीरस्य च धारणम्
नानयोश् च विशेषो ऽस्ति ततो ज्यैष्ठ्यं समं मतम् ततो मद्वचनाज् ज्यैष्ठ्यम् उभयोर् नैव कस्यचित्
ज्यैष्ठ्यम् अन्यतरस्येति मेनिरे ऋषिसत्तमाः न तृप्ता मम वाक्येन जग्मुर् वायुं तपस्विनः
कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम्
वायुर् आहानलो ज्येष्ठः सर्वम् अग्नौ प्रतिष्ठितम् नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुस् ते ऽपि वसुंधराम्
सत्यं भूमे वद ज्यैष्ठ्यम् आधारासि चराचरे
भूमिर् अप्य् आह विनयाद् आगतांस् तान् ऋषीन् इदम्
ममाप्य् आधारभूताः स्युर् आपो देव्यः सनातनाः अद्भ्यस् तु जायते सर्वं ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम्
नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् तुष्टुवुर् विविधैः स्तोत्रैः शङ्खचक्रगदाधरम्
यो वेद सर्वं भुवनं भविष्यद् यज् जायमानं च गुहानिविष्टम् लोकत्रयं चित्रविचित्ररूपम् अन्ते समस्तं च यम् आविवेश
यद् अक्षरं शाश्वतम् अप्रमेयं यं वेदवेद्यम् ऋषयो वदन्ति यम् आश्रिताः स्वेप्सितम् आप्नुवन्ति तद् वस्तु सत्यं शरणं व्रजामः
भूतं महाभूतजगत्प्रधानं न विन्दते योगिनो विष्णुरूपम् तद् वक्तुम् एते ऋषयो ऽत्र याताः सत्यं वदस्वेह जगन्निवास
त्वम् अन्तरात्माखिलदेहभाजां त्वम् एव सर्वं त्वयि सर्वम् ईश तथापि जानन्ति न केअपि कुत्रापि अहो भवन्तं प्रकृतिप्रभावात्
ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी
उभाव् आराध्य तपसा भक्त्या च नियमेन च यस्य स्यात् प्रथमं सिद्धिस् तद् भूतं ज्येष्ठम् उच्यते
तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यम् आश्रिताः
सर्वलोकैकजननीं भुवनत्रयपावनीम् गौतमीम् अगमन् सर्वे तपस् तप्तुं यतव्रताः
अब्दैवतं तथाग्निं च पूजनायोद्यतास् तदा अग्नेश् च पूजका ये च अपां वै पूजने स्थिताः तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती