लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः तत्र पिण्डादिदानेन पितरो मुक्तिम् आप्नुयुः मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः
यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ
मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः तेषाम् आरोग्यम् ऐश्वर्यं लक्ष्मीं रूपं ददाम्य् अहम्
इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः नैवाग्नितो भयं तस्य लिखिते ऽपि गृहे स्थिते
स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर् नरः अग्निष्टोमफलं तस्य भवेद् एव न संशयः
ततः प्रभृति तत् तीर्थं याम्यम् आग्नेयम् एव च कपोतं च तथोलूकं हेत्युलूकं विदुर् बुधाः
तत्र त्रीणि सहस्राणि तावन्त्य् एव शतानि च पुनर् नवतितीर्थानि प्रत्येकं मुक्तिभाजनम्
तेषु स्नानेन दानेन प्रेतीभूताश् च ये नराः पूतास् ते पुत्रवित्ताढ्या आक्रमेयुर् दिवं शुभाः
तपस्तीर्थम् इति ख्यातं तपोवृद्धिकरं महत् सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम्
तस्मिंस् तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् अपाम् अग्नेश् च संवादम् ऋषीणां च परस्परम्
अपो ज्येष्ठतमाः केचिन् मेनिरे ऽग्निं तथापरे एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः
विनाग्निं जीवनं क्व स्याज् जीवभूतो यतो ऽनलः आत्मभूतो हव्यभूतश् चाग्निना जायते ऽखिलम्
अग्निना ध्रियते लोको ह्य् अग्निर् ज्योतिर्मयं जगत् तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत्
अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम्
तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् योषित्क्षेत्रे ऽर्पितं बीजं पुरुषेण यथा तथा
तस्य देहादिका शक्तिः कृशानोर् एव नान्यथा देवानां हि मुखं वह्निस् तस्मान् नातः परं विदुः
अपरे तु ह्य् अपां ज्यैष्ठ्यं मेनिरे वेदवादिनः अद्भिः संपत्स्यते ह्य् अन्नं शुचिर् अद्भिः प्रजायते
अद्भिर् एव धृतं सर्वम् आपो वै मातरः स्मृताः त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः
उत्पन्नम् अमृतं ह्य् अद्भ्यस् ताभ्यश् चौषधिसंभवः अग्निर् ज्येष्ठ इति प्राहुर् आपो ज्येष्ठतमाः परे
एवं मीमांसमानास् ते ऋषयो वेदवादिनः विरुद्धवादिनो मां च समभ्येत्येदम् अब्रुवन्
अग्नेर् अपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः
अहम् अप्य् अब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत्
उभाभ्यां जायते हव्यं कव्यं चामृतम् एव च उभाभ्यां जीवनं लोके शरीरस्य च धारणम्
नानयोश् च विशेषो ऽस्ति ततो ज्यैष्ठ्यं समं मतम् ततो मद्वचनाज् ज्यैष्ठ्यम् उभयोर् नैव कस्यचित्
ज्यैष्ठ्यम् अन्यतरस्येति मेनिरे ऋषिसत्तमाः न तृप्ता मम वाक्येन जग्मुर् वायुं तपस्विनः
कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम्
वायुर् आहानलो ज्येष्ठः सर्वम् अग्नौ प्रतिष्ठितम् नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुस् ते ऽपि वसुंधराम्
सत्यं भूमे वद ज्यैष्ठ्यम् आधारासि चराचरे
भूमिर् अप्य् आह विनयाद् आगतांस् तान् ऋषीन् इदम्
ममाप्य् आधारभूताः स्युर् आपो देव्यः सनातनाः अद्भ्यस् तु जायते सर्वं ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम्