तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः पुनः
पाशानां चापि दण्डस्य स्थानं वद शुभानने
सा प्रोवाच यमं देवं मयि पाशास् त्वयेरिताः आविशन्तु जगन्नाथ दण्डो मय्य् एव संविशेत् ततः प्रोवाच भगवान् यमस् तां कृपया पुनः
तव भर्ता च पुत्राश् च सर्वे जीवन्तु विज्वराः
न्यवारयद् यमः पाशान् आग्नेयास्त्रं तु हव्यवाट् कपोतोलूकयोश् चापि प्रीतिं वै चक्रतुः सुरौ आहतुश् च द्विजन्मानौ व्रियतां वर ईप्सितः
भवतोर् दर्शनं लब्धं वैरव्याजेन दुष्करम् वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ
अथ देयो वरो ऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् नात्मार्थम् अनुयाचावो दीयमानं वरं शुभम्
आत्मार्थं यस् तु याचेत स शोच्यो हि सुरेश्वरौ जीवितं सफलं तस्य यः परार्थोद्यतः सदा
अग्निर् आपो रविः पृथ्वी धान्यानि विविधानि च परार्थं वर्तनं तेषां सतां चापि विशेषतः
ब्रह्मादयो ऽपि हि यतो युज्यन्ते मृत्युना सह एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः
जन्मना सह यत् पुंसां विहितं परमेष्ठिना कदाचिन् नान्यथा तद् वै वृथा क्लिश्यन्ति जन्तवः
तस्माद् याचावहे किंचिद् धिताय जगतां शुभम् गुणदायि तु सर्वेषां तद् युवाम् अनुमन्यताम्
ताव् आहतुर् उभौ देवौ पक्षिणौ लोकविश्रुतौ धर्मस्य यशसो ऽवाप्त्ये लोकानां हितकाम्यया
आवाभ्याम् आश्रमौ तीर्थे गङ्गाया उभये तटे भवेतां जगतां नाथाव् एष एव परो वरः
स्नानं दानं जपो होमः पितॄणां चापि पूजनम् सुकृती दुष्कृती वापि यः करोति यथा तथा सर्वं तद् अक्षयं पुण्यं स्याद् इत्य् एष परो वरः
एवम् अस्तु तथा चान्यत् सुप्रीतौ तु ब्रवावहै
उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये तेषां सप्तसु वंशेषु नाकाले मृत्युम् आप्नुयात्
पुरुषो भाजनं च स्यात् सर्वदा सर्वसंपदाम् यस् त्व् इदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान्
अष्टाशीतिसहस्रैश् च व्याधिभिर् न स बाध्यते अस्मिंस् तीर्थे द्विजश्रेष्ठौ त्रिमासाद् गुर्विणी सती
अर्वाग्वन्ध्या च षण्मासात् सप्ताहं स्नानम् आचरेत् वीरसूः सा भवेन् नारी शतायुः स सुतो भवेत्
लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः तत्र पिण्डादिदानेन पितरो मुक्तिम् आप्नुयुः मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः
यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ
मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः तेषाम् आरोग्यम् ऐश्वर्यं लक्ष्मीं रूपं ददाम्य् अहम्
इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः नैवाग्नितो भयं तस्य लिखिते ऽपि गृहे स्थिते
स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर् नरः अग्निष्टोमफलं तस्य भवेद् एव न संशयः
ततः प्रभृति तत् तीर्थं याम्यम् आग्नेयम् एव च कपोतं च तथोलूकं हेत्युलूकं विदुर् बुधाः
तत्र त्रीणि सहस्राणि तावन्त्य् एव शतानि च पुनर् नवतितीर्थानि प्रत्येकं मुक्तिभाजनम्
तेषु स्नानेन दानेन प्रेतीभूताश् च ये नराः पूतास् ते पुत्रवित्ताढ्या आक्रमेयुर् दिवं शुभाः
तपस्तीर्थम् इति ख्यातं तपोवृद्धिकरं महत् सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम्
तस्मिंस् तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् अपाम् अग्नेश् च संवादम् ऋषीणां च परस्परम्