ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम् एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि
सर्वं भविष्यतीत्य् उक्त्वा शिवश् चान्तरधीयत कृतकृत्याश् च ते जग्मुः सर्व एव यथागतम् तीर्थानां पुण्यदं तत्र लक्षम् एकं प्रकीर्तितम्
यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् दृष्टादृष्टेष्टदं सर्वदेवर्षिगणसेवितम्
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् अनुह्राद इति ख्यातः कपोतो बलवान् अभूत्
तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी मृत्योः पौत्रो ह्य् अनुह्रादो दौहित्री हेतिर् एव च
कालेनाथ तयोः पुत्राः पौत्राश् चैव बभूविरे तस्य शत्रुश् च बलवान् उलूको नाम पक्षिराट्
तस्य पुत्राश् च पौत्राश् च आग्नेयास् ते बलोत्कटाः तयोश् च वैरम् अभवद् बहुकालं द्विजन्मनोः
गङ्गाया उत्तरे तीरे कपोतस्याश्रमो ऽभवत् तस्याश् च दक्षिणे कूल उलूको नाम पक्षिराट्
वासं चक्रे तत्र पुत्रैः पौत्रैश् च द्विजसत्तम तयोश् च युद्धम् अभवद् बहुकालं विरुद्धयोः
पुत्रैः पौत्रैश् च वृतयोर् बलिनोर् बलिभिः सह उलूको वा कपोतो वा नैवाप्नोति जयाजयौ
कपोतो यमम् आराध्य मृत्युं पैतामहं तथा याम्यम् अस्त्रम् अवाप्याथ सर्वेभ्यो ऽप्य् अधिको ऽभवत्
तथोलूको ऽग्निम् आराध्य बलवान् अभवद् भृशम् वरैर् उन्मत्तयोर् युद्धम् अभवच् चातिभीषणम्
तत्राग्नेयम् उलूको ऽपि कपोतायास्त्रम् आक्षिपत् कपोतो ऽप्य् अथ पाशान् वै याम्यान् आक्षिप्य शत्रवे
उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् पुनस् तद् अभवद् युद्धं पुराडिबकयोर् यथा
हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तम् अन्तिके पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला
अग्निना वेष्ट्यमानांश् च पुत्रान् दृष्ट्वा विशेषतः सा गत्वा ज्वलनं हेतिस् तुष्टाव विविधोक्तिभिः
रूपं न दानं न परोक्षम् अस्ति यस्यात्मभूतं च पदार्थजातम् अश्नन्ति हव्यानि च येन देवाः स्वाहापतिं यज्ञभुजं नमस्ये
मुखभूतं च देवानां देवानां हव्यवाहनम् होतारं चापि देवानां देवानां दूतम् एव च
तं देवं शरणं यामि आदिदेवं विभावसुम् अन्तः स्थितः प्राणरूपो बहिश् चान्नप्रदो हि यः यो यज्ञसाधनं यामि शरणं तं धनंजयम्
अमोघम् एतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते
मयि विश्रम्यताम् अस्त्रं न पुत्रे न च भर्तरि सत्यवाग् भव हव्येश जातवेदो नमो ऽस्तु ते
तुष्टो ऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्य् अहम्
आग्नेयम् एतद् अस्त्रं मे न भर्तारं सुतान् अपि न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि
एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् वेष्ट्यमानं याम्यपाशैर् यमदण्डेन ताडितम् उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा
त्वद्भीता अनुद्रवन्ते जनास् त्वद्भीता ब्रह्मचर्यं चरन्ति त्वद्भीताः साधु चरन्ति धीरास् त्वद्भीताः कर्मनिष्ठा भवन्ति
त्वद्भीता अनाशकम् आचरन्ति ग्रामाद् अरण्यम् अभि यच् चरन्ति त्वद्भीताः सौम्यताम् आश्रयन्ते त्वद्भीताः सोमपानं भजन्ते
एवं ब्रुवत्यां तस्यां ताम् आह दक्षिणदिक्पतिः
वरं वरय भद्रं ते दास्ये ऽहं मनसः प्रियम्
यमस्येति वचः श्रुत्वा सा तम् आह पतिव्रता
भर्ता मे वेष्टितः पाशैर् दण्डेनाभिहतस् तव तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारम् एव च