न कुर्यास् त्वं च कोपं च शचीभर्तरि वै मुने शमं व्रज महाप्राज्ञ मरुतस् त्व् अमरा भवन्
दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः
एको भूयान् मम सुतस् त्रैलोक्यैश्वर्यमण्डितः इत्य् एवं चिन्तयन्ती त्वं तपसे नियताभवः
तद् एतत् सफलं ते ऽद्य पुत्रा बहुगुणाः शुभाः अभवन् बलिनः शूरास् तस्माज् जहि मनोरुजम् अन्यान् अपि वरान् सुभ्रूर् याचस्व गतसंभ्रमा
तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः कृताञ्जलिपुटा नत्वा शंभुं वाक्यम् अथाब्रवीत्
लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित
तत्रापि रूपसंपत्तिशौर्यविक्रमवान् भवेत् एको ऽपि तनयः किंतु बहवश् चेत् किम् उच्यते
मत्पुत्रास् ते प्रभावाच् च जेतारो बलिनो ध्रुवम् इन्द्रस्य भ्रातरः सत्यं पुत्राश् चैव प्रजापतेः
अगस्त्यस्य प्रसादाच् च गङ्गायाश् च प्रसादतः यत्र देव प्रसादस् ते तच् छुभं को ऽत्र संशयः
कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्य् अहम् शृणुष्व देव वचनं कुरुष्व च जगद्धितम्
वदेत्य् उक्ता जगद्धात्रा दितिर् नम्राब्रवीद् इदम्
संततिप्रापणं लोके दुर्लभं सुरवन्दित विशेषेण प्रियं मातुः पुत्रश् चेत् किं नु वर्ण्यते
स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा
सर्वेषाम् अपि भूतानाम् इहामुत्र फलैषिणाम् गुणवत्पुत्रसंप्राप्तिर् अभीष्टा सर्वदैव च तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः
महापापफलं चेदं यद् एतद् अनपत्यता स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते
तद् अत्र स्नानमात्रेण तद्दोषो नाशम् आप्नुयात् स्नात्वा तत्र फलं दद्यात् स्तोत्रम् एतच् च यः पठेत्
स तु पुत्रम् अवाप्नोति त्रिमासस्नानदानतः अपुत्रिणी त्व् अत्र स्नानं कृत्वा पुत्रम् अवाप्नुयात्
ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल् लभेत् त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस् त्व् इह
फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा तस्याः शक्रसमः पुत्रो जायते नात्र संशयः
पितृदोषैश् च ये पुत्रं न लभन्ते दिते शृणु धनापहारदोषैश् च तत्रैषा निष्कृतिः परा
तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च किंचित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम्
ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः श्राद्धकर्मविहीनाश् च तेषां वंशो न वर्धते
दोषिणां तु परेतानां गतिर् एषा भवेद् इति संततिर् जायतां श्लाघ्या जीवतां तीर्थसेवनात्
संगमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् अनाद्यपारम् अजरं चित्सदानन्दविग्रहम्
देवर्षिसिद्धगन्धर्वयोगीश्वरनिषेवितम् लिङ्गात्मकं महादेवं ज्योतिर्मयम् अनामयम्
पूजयित्वोपचारैश् च नित्यं भक्त्या यतव्रतः स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च
यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् यः करोत्य् अत्र गङ्गायां स पुत्रशतम् आप्नुयात्
संप्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत् स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम् षण्मासात् पुत्रम् आप्नोति अपि वन्ध्याप्य् अशङ्कितम्
ततः प्रभृति तत् तीर्थं पुत्रतीर्थम् उदाहृतम् तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात्
मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते