तेषाम् आरोग्यतां चापि शचीभर्तुर् अदोषताम् अगस्त्यदत्तशापस्य विशापत्वम् अपि क्रमात्
ततो ऽहम् अब्रवं वाक्यं कश्यपं विनयान्वितम् प्रजापते कश्यप त्वं वसुभिर् लोकपालकैः
इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः
ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति तथेत्य् उक्त्वा जगामासौ कश्यपो गौतमीं तदा
स्नात्वा तुष्टाव देवेशम् एभिर् एव पदक्रमैः सर्वदुःखापनोदाय द्वयम् एव प्रकीर्तितम् गौतमी वा पुण्यनदी शिवो वा करुणाकरः
पाहि शंकर देवेश पाहि लोकनमस्कृत पाहि पावन वागीश पाहि पन्नगभूषण
पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर
पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण पाहि यज्ञेश सोमेश पाह्य् अभीष्टप्रदायक
पाहि कारुण्यनिलय पाहि मङ्गलदायक पाहि प्रभव सर्वस्य पाहि पालक वासव
पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत पाहि विश्वेश सिद्धेश पाहि पूर्ण नमो ऽस्तु ते
घोरसंसारकान्तारसंचारोद्विग्नचेतसाम् शरीरिणां कृपासिन्धो त्वम् एव शरणं शिव
एवं संस्तुवतस् तस्य पुरतो ऽभूद् वृषध्वजः वरेण च्छन्दयाम् आस कश्यपं तं प्रजापतिम्
कश्यपो ऽपि शिवं प्राह विनीतवद् इदं वचः स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम्
शापं नाशं च पुत्राणां परस्परम् अमित्रताम् पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च ततो वृषाकपिः प्राह दितिं चागस्त्यम् एव च
मरुतो ये भवत्पुत्राः पञ्चाशच् चैकवर्जिताः सर्वे भवेयुः सुभगा भवेयुर् यज्ञभागिनः
इन्द्रेण सहिता नित्यं वर्तयेयुर् मुदान्विताः
इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् आदौ तु मरुतस् तत्र भवेयुर् नात्र संशयः
मरुद्भिः सहितं शक्रं न जयेयुः कदाचन जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते
अद्यप्रभृति ये कुर्युर् अनयाद् भ्रातृघातनम् वंशच्छेदो विपत्तिश् च नित्यं तेषां भविष्यति
अगस्त्यम् ऋषिशार्दूलं शंभुर् अप्य् आह यत्नतः
न कुर्यास् त्वं च कोपं च शचीभर्तरि वै मुने शमं व्रज महाप्राज्ञ मरुतस् त्व् अमरा भवन्
दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः
एको भूयान् मम सुतस् त्रैलोक्यैश्वर्यमण्डितः इत्य् एवं चिन्तयन्ती त्वं तपसे नियताभवः
तद् एतत् सफलं ते ऽद्य पुत्रा बहुगुणाः शुभाः अभवन् बलिनः शूरास् तस्माज् जहि मनोरुजम् अन्यान् अपि वरान् सुभ्रूर् याचस्व गतसंभ्रमा
तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः कृताञ्जलिपुटा नत्वा शंभुं वाक्यम् अथाब्रवीत्
लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित
तत्रापि रूपसंपत्तिशौर्यविक्रमवान् भवेत् एको ऽपि तनयः किंतु बहवश् चेत् किम् उच्यते
मत्पुत्रास् ते प्रभावाच् च जेतारो बलिनो ध्रुवम् इन्द्रस्य भ्रातरः सत्यं पुत्राश् चैव प्रजापतेः
अगस्त्यस्य प्रसादाच् च गङ्गायाश् च प्रसादतः यत्र देव प्रसादस् ते तच् छुभं को ऽत्र संशयः
कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्य् अहम् शृणुष्व देव वचनं कुरुष्व च जगद्धितम्