ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति
शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः वज्रपाणिः सुरेन्द्रस् त्वं ते न युक्तं भवेत् प्रभो
अथवा युद्धकामस् त्वं मम निष्क्रमणं यथा तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर
कुमार्गे न प्रवर्तन्ते महान्तो ऽपि विपद्गताः अविद्यश् चाप्य् अशस्त्रश् च नैव चायुधसंग्रहः
त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन
हत्वा वा किं तु जायेत यशो वा पुण्यम् एव वा वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम्
यदि वा युद्धभक्तिस् ते मयि भ्रातर् असंशयम् ततो मुष्टिं पुरस्कृत्य वज्रिणे ऽसौ व्यवस्थितः
बालघाती ब्रह्मघाती तथा विश्वासघातकः एवंभूतं फलं शक्र कस्मान् मां हन्तुम् उद्यतः
यस्याज्ञया सर्वम् इदं वर्तते सचराचरम् स हन्ता बालकं मां वै किं यशः किं तु पौरुषम्
एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते
न ममार ततो दुःखाद् आहुस् ते भ्रातरो वयम् पुनश् चिच्छेद तान् खण्डान् मा वधीर् इति चाब्रुवन्
विश्वस्तान् मातृगर्भस्थान् निजभ्रातॄञ् शतक्रतो द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः
एवं तु खण्डितं खण्डं हस्तपादादिजीववत् निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः
एकवद् बहुरूपाणि गर्भस्थानि शुभानि च रुदन्ति बहुरूपाणि मा रुतेत्य् अब्रवीद् धरिः
ततस् ते मरुतो जाता बलवन्तो महौजसः गर्भस्था एव ते ऽन्योन्यम् ऊचुः शक्रं गतभ्रमाः
अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते
अस्मान् उपरि सस्नेहं मनस् ते विद्महे मुने न यत् करोति श्वपचः प्रवृत्तस् तत्र वज्रधृक्
इत्य् एतद् वचनं श्रुत्वा अगस्त्यो ऽगात् ससंभ्रमः दितिं संबोधयाम् आस व्यथितां गर्भवेदनात्
तत्रागस्त्यः शचीकान्तम् अशपत् कुपितो भृशम्
संग्रामे रिपवः पृष्ठं पश्येयुस् ते सदा हरे जीवताम् एव मरणम् एतद् एव हि मानिनाम् पृष्ठं पलायमानानां यत् पश्यन्त्य् अहिता रणे
सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः
न पौरुषं कृतं तस्माच् छापो ऽयं भविता तव स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे
एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः प्रायाच् च व्यथितो ऽगस्त्याच् छ्रुत्वा शक्रविचेष्टितम् गर्भान्तरगतः शक्रः पितरं प्राह भीतवत्
अगस्त्याच् च दितेश् चैव बिभेमि क्रमितुं बहिः
एतस्मिन्न् अन्तरे प्राप्य कश्यपो ऽपि प्रजापतिः पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिम् एव च दितिशापम् अगस्त्यस्य श्रुत्वासौ दुःखितो ऽभवत्
निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके
स निर्गतो वज्रपाणिः सव्रीडो ऽधोमुखो ऽब्रवीत् तन्मूर्तिर् एव वदति सदसच्चेष्टितं नृणाम्
यद् उक्तम् अत्र श्रेयः स्यात् तत्कर्ताहम् असंशयम्
ततो ममान्तिकं प्रायाल् लोकपालैः स कश्यपः सर्वं वृत्तम् अथोवाच पुनः पप्रच्छ मां सुरैः
दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् गर्भस्थानां च सर्वेषाम् इन्द्रेण सह मित्रताम्