अग्नींश् च ब्राह्मणान् पूज्य जेतुम् इन्द्रं कृतक्षणः दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः
विदित्वा मघवा वायोर् मयं मायाविनं रिपुम् उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तम् अभ्यगात् शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः
देहि दैत्यपते मह्यम् अर्थिने ऽपेक्षितं वरम् त्वां श्रुत्वा दातृतिलकम् आगतो ऽहं द्विजोत्तमः
मयो ऽपि ब्राह्मणं मत्वा ऽवदद् दत्तं मया तव विचारयन्ति कृतिनो बह्व् अल्पं वा पुरो ऽर्थिनि
इत्य् उक्ते तु हरिः प्राह सख्यम् इच्छे ह्य् अहं त्वया इन्द्रं मयः पुनः प्राह किम् अनेन द्विजोत्तम
न त्वया मम वैरं भोः स्वस्तीत्य् आह हरिर् मयम् तत्त्वं वदेति स हरिर् दैत्येनोक्तः स्वकं वपुः
दर्शयाम् आस दैत्याय सहस्राक्षं यद् उच्यते ततः सविस्मयो दैत्यो मयो हरिम् उवाच ह
किम् इदं वज्रपाणिस् त्वं तवायोग्या कृतिः सखे
परिष्वज्य विहस्याथ वृत्तम् इत्य् अब्रवीद् धरिः केनापि साधयन्त्य् अत्र पण्डिताश् च समीहितम्
ततः प्रभृति शक्रस्य मयेन महती ह्य् अभूत् सुप्रीतिर् मुनिशार्दूल मयो हरिहितः सदा
इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् किं मे कृत्यम् इति प्राह मयं मायाविनं हरिः
हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः प्राप्तः संप्रीतिमान् आह किं कृत्यं मय तद् वद
अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च
अहानि मघवंस् तस्या गर्भम् आविश्य वज्रधृक् वर्धमानं च तं छिन्धि यावद् वश्यो ऽथवा मृतिम् प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः
तथेत्य् उक्त्वा मयं पूज्य मघवान् एक एव हि विनीतवत् तदा प्रायाद् दितिं मातरम् अञ्जसा शुश्रूषमाणस् तां देवीं शक्रो दैतेयमातरम् सा न जानाति तच् चित्तं शक्रस्य द्विषतो दितिः
गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम् अमोघं तन् मुनेस् तेजः कश्यपस्य दुरासदम्
ततः प्रगृह्य कुलिशं सहस्राक्षः पुरंदरः अन्तःप्रवेशकामो ऽसौ बहुकालं समावसन्
संध्योदक्शीर्षनिद्रां ताम् अवेक्ष्य कुलिशायुधः इदम् अन्तरम् इत्य् उक्त्वा दित्याः कुक्षिं समाविशत्
अन्तर्वर्ति च यद् भूतम् इन्द्रं दृष्ट्वा धृतायुधम् हन्तुकामं तदोवाच पुनः पुनर् अभीतवत्
किं मां न रक्षसे वज्रिन् भ्रातरं त्वं जिघांससि नारणे मारणाद् अन्यत् पातकं विद्यते महत्
ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति
शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः वज्रपाणिः सुरेन्द्रस् त्वं ते न युक्तं भवेत् प्रभो
अथवा युद्धकामस् त्वं मम निष्क्रमणं यथा तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर
कुमार्गे न प्रवर्तन्ते महान्तो ऽपि विपद्गताः अविद्यश् चाप्य् अशस्त्रश् च नैव चायुधसंग्रहः
त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन
हत्वा वा किं तु जायेत यशो वा पुण्यम् एव वा वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम्
यदि वा युद्धभक्तिस् ते मयि भ्रातर् असंशयम् ततो मुष्टिं पुरस्कृत्य वज्रिणे ऽसौ व्यवस्थितः
बालघाती ब्रह्मघाती तथा विश्वासघातकः एवंभूतं फलं शक्र कस्मान् मां हन्तुम् उद्यतः
यस्याज्ञया सर्वम् इदं वर्तते सचराचरम् स हन्ता बालकं मां वै किं यशः किं तु पौरुषम्
एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते