ततः संशयम् आपन्नास् ताराम् ऊचुः सुरोत्तमाः सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः
पृच्छ्यमाना यदा देवैर् नाह सा विबुधान् किल तदा तां शप्तुम् आरब्धः कुमारो दस्युहन्तमः
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस् त्व् अयम्
उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् तदा तं मूर्ध्नि चाघ्राय सोमो राजा सुतं प्रति
बुध इत्य् अकरोन् नाम तस्य बालस्य धीमतः प्रतिकूलं च गगने समभ्युत्तिष्ठते बुधः
उत्पादयाम् आस तदा पुत्रं वैराजपुत्रिकम् तस्यापत्यं महातेजा बभूवैलः पुरूरवाः
उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः एतत् सोमस्य वो जन्म कीर्तितं कीर्तिवर्धनम्
वंशम् अस्य मुनिश्रेष्ठाः कीर्त्यमानं निबोधत धन्यम् आयुष्यम् आरोग्यं पुण्यं संकल्पसाधनम्
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः तेजस्वी दानशीलश् च यज्वा विपुलदक्षिणः
ब्रह्मवादी पराक्रान्तः शत्रुभिर् युधि दुर्दमः आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः
सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा
तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् उर्वशी वरयाम् आस हित्वा मानं यशस्विनी
तया सहावसद् राजा दश वर्षाणि पञ्च च षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे अलकायां विशालायां नन्दने च वनोत्तमे
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे
एतेषु वनमुख्येषु सुरैर् आचरितेषु च उर्वश्या सहितो राजा रेमे परमया मुदा
देशे पुण्यतमे चैव महर्षिभिर् अभिष्टुते राज्यं स कारयाम् आस प्रयागे पृथिवीपतिः
एवंप्रभावो राजासीद् ऐलस् तु नरसत्तमः उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः
ऐलपुत्रा बभूवुस् ते सप्त देवसुतोपमाः गन्धर्वलोके विदिता आयुर् धीमान् अमावसुः
विश्वायुश् चैव धर्मात्मा श्रुतायुश् च तथापरः दृढायुश् च वनायुश् च बह्वायुश् चोर्वशीसुताः
अमावसोस् तु दायादो भीमो राजाथ राजराट् श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः
विद्वांस् तु काञ्चनस्यापि सुहोत्रो ऽभून् महाबलः सुहोत्रस्याभवज् जह्नुः केशिन्या गर्भसंभवः
आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् पतिलोभेन यं गङ्गा पतित्वेन ससार ह
नेच्छतः प्लावयाम् आस तस्य गङ्गा तदा सदः स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
सौहोत्रिर् अशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः एष ते विफलं यत्नं पिबन्न् अम्भः करोम्य् अहम्
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः
उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम् युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत्
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम्
जह्नुस् तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः