साध्व्य् एतत् सर्वभावेन प्रश्रयावनता सती
एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद
भर्तारं कश्यपं भद्रे तोषयस्व निजैर् गुणैः तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि
तथेत्य् उक्त्वा सर्वभावैस् तोषयाम् आस कश्यपम् दितिं प्रोवाच भगवान् कश्यपो ऽथ प्रजापतिः
किं ददामि वदाभीष्टं दिते वरय सुव्रते
दितिर् अप्य् आह भर्तारं पुत्रं बहुगुणान्वितम् जेतारं सर्वलोकानां सर्वलोकनमस्कृतम्
येन जातेन लोके ऽस्मिन् भवेयं वीरपुत्रिणी तं वरेयं सुरपितर् इत्य् आह विनयान्विता
उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् तत आगत्य ते गर्भम् आधास्ये यन् मनोगतम् निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः
भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि
तीर्थसेवापात्रदानव्रतचर्यादिवर्जिताः कथम् आसादयिष्यन्ति प्राणिनो ऽत्र मनोरथान्
ततश् चीर्णे व्रते तस्यां दित्यां गर्भम् अधारयत् पुनः कान्ताम् अथोवाच कश्यपस् तां दितिं रहः
न प्राप्नुवन्ति यत्कामान् मुनयो ऽपि तपस्स्थिताः यथाविहितकर्माङ्गअवज्ञया तच् छुचिस्मिते
निन्दितं च न कर्तव्यं संध्ययोर् उभयोर् अपि न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव
भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा संध्याकाले न कर्तव्यं भूतसंघसमाकुले
सान्तर्धानं सदा कार्यं हसितं तु विशेषतः गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन
मुशलोलूखलादीनि शूर्पपीठपिधानकम् नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये
उदक्शीर्षं तु शयनं न संध्यासु विशेषतः वक्तव्यं नानृतं किंचिन् नान्यगेहाटनं तथा
कान्ताद् अन्यो न वीक्ष्यस् तु प्रयत्नेन नरः क्वचित् इत्यादिनियमैर् युक्ता यदि त्वम् अनुवर्तसे ततस् ते भविता पुत्रस् त्रैलोक्यैश्वर्यभाजनम्
तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् गतश् च कश्यपो ब्रह्मन्न् इतश् चेतः सुरान् प्रति
दितेर् गर्भो ऽपि ववृधे बलवान् पुण्यसंभवः एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः
इन्द्रस्य सख्यम् अभवन् मयेन प्रीतिपूर्वकम् मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः
दितेर् दनोर् अभिप्रायं व्रतं गर्भस्य वर्धनम् तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत्
विश्वासैकगृहं मित्रम् अपायत्रासवर्जितम् अर्जितं सुकृतं नानाविधं चेत् तद् अवाप्यते
नमुचेश् च प्रियो भ्राता मयो दैत्यो महाबलः भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर
दैत्यानाम् अधिपश् चासीद् बलवान् नमुचिः पुरा इन्द्रेण वैरम् अभवद् भीषणं लोमहर्षणम्
युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम् दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतो ऽन्वगात्
तम् आयान्तम् अभिप्रेक्ष्य शचीभर्ता भयातुरः ऐरावतं गजं त्यक्त्वा इन्द्रः फेनम् अथाविशत्
स वज्रपाणिस् तरसा फेनेनैवाहनद् रिपुम् नमुचिर् नाशम् अगमत् तस्य भ्राता मयो ऽनुजः
भ्रातृहन्तृविनाशाय तपस् तेपे मयो महत् मायां च विविधाम् आप देवानाम् अतिभीषणाम्
वरांश् चावाप्य तपसा विष्णोर् लोकपरायणात् दानशौण्डः प्रियालापी तदाभवद् असौ मयः